________________
40
न्यायावतारः, १
- ततश्च पूर्वापरदर्शनयोः पुरोवर्तिगोगवयपिण्डग्रहणपर्यवसितसत्ताकत्वात् पूर्वापरपरामर्शशून्यत्वाद् विशदनि सितया शब्दोल्लेखरहितत्वात् तदधिकमव्यभिचरितं व्यवहारकारि सादृश्यमवस्यदुपमानं स्वपरप्रकाशितया निर्बाधकत्वाच्च प्रमाणम् । पूर्वापरपिण्डातिरिक्तमपरं सादृश्यं नोपलभ्यते इति चेत्, कोऽयमुपालम्भो यदि प्रत्यक्षं तत् । यदि प्रत्यक्षे सादृश्यमुपमानगोचरत्वान्न प्रतिभाति, कोऽस्थापराधः । न हि ज्ञानान्तरे तद्गोचरो न प्रतिभातीति निर्गोचरं तदिति वक्तुं शक्यम्, इतरथोपमानेऽपि प्रत्यक्षनिह्या व्यक्तिर्न भातीति निर्गोचरमध्यक्षमनुषज्येत । तद् यथा स्वविषयेऽध्यक्ष प्रमाणं
तथोपमानमपि । न हि द्वयोः प्रथमानयोरेकं प्रति विशेषाभावे पक्षपातः 10 कर्तुं युक्तः । एतेन प्रत्यभिज्ञाज्ञानस्मृत्यूहादीनामविसंवादकानां परोक्ष
विशेषाणां प्रामाण्यं व्याख्यातमवगन्तव्यम्, समानन्यायानुपातित्वात् । तथा हि-प्रथममर्थदर्शनमात्मनि संस्कारमाधत्ते, तादृशदर्शनादसौ संस्कार: प्रबुध्यते, प्रबुद्धः पूर्वार्थविषयं स एवायं तज्जातीयो वेत्युल्लेखेन प्रत्यभिज्ञानमुत्थापयति, तस्योर्ध्वतिरश्चीनभेदसामान्यव्यवस्थापकत्वाद् असंजातपूर्वार्थगोचरदर्शनस्य तदुदयाभावात्, तथा स एव संस्कारस्तादृशार्थदर्शनेनाभोगादिना वा प्रबुद्धोऽनुभूतविषयासंप्रमोषलक्षणं स्मरणमुपजनयति, अदृष्टार्थस्य पुंसः स्मरणानुपपत्तेरिति । ऊहोऽपि प्रत्यक्षानुमानासंवेद्यसाध्यार्थान्यथानुपपन्नत्वलक्षणलिङ्गसंबन्धग्रहणप्रवणः प्रमाणान्तरमिति कथयिष्यते । अर्थापत्तिस्तु प्रत्यक्षादिगोचरीकृते स्फोटादिपदार्थान्यथानुपपत्त्या दहनशक्त्यादिकं पावकादेरर्थान्तरं पूर्वदर्शनगोचरात् समधिकमव्यभिचरितं परिकल्पयतीति प्रमाणतां स्वीकरोत्येव, तल्लक्षणयोगात् । एवमन्यदपि प्रत्यक्षगोचराधिक्यसंपादक निराकाङ्क्षतया व्यवहारकारि यत्संवेदनं तत्तत्प्रमाणमिति समर्थनीयम्, स्वपरप्रकाशिनिधित्वात्, पूर्वापरसोपानपद्धतिदर्शनोत्तरकालभावि तत्संख्या
संवेदनवत् । सर्वेषां चैतेषां परोक्षेऽन्तर्भावः, अन्यथानुपपन्नार्थान्तरदर्शनद्वारेण25 प्रस्तुतार्थसंवेदनचतुरत्वादिति। किंचिद्विशेषात्तु प्रमाणान्तरपरिकल्पने प्रमाणे
यत्ता विशीर्येत, आनन्त्यप्राप्तेः, आवरणक्षयोपशमविचित्रतया ज्ञानप्रवृत्तेर्विचित्रत्वादिति । ननु चैवं सति यत्परोक्षस्य द्वैविध्यं वक्ष्यमाणमनुमानशाब्दभेदेन तदपि कथमुपपत्स्यते, तत्रापि ह्याप्तप्रणीतवचनप्रभवज्ञानस्यार्थान्य
थानुपपन्नत्वेनानुमानान्तर्भावो न दुरुपपादः । ततश्चानुमानमेवैकमवशिष्यते 30 तदेव परोक्षशब्देन यद्युच्येत युक्तमास्ते, विदुषामभिधानं प्रत्यनादरात्
1
.
20
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org