________________
न्यायावतारः, १
39
कर्तव्यम् । परावबोधार्थ च प्रत्यक्षमेवैकं प्रमाणं नान्यदस्तीत्युल्लपन् उन्मत्ततामात्मनो लक्षति । प्रत्यक्षेण परचेतोवृत्तिसाक्षात्करणाभावाद् व्यापारव्याहारचेष्टाविशेषदर्शनाद् बोधविशेषावगतौ परोक्षस्य प्रामाण्यं बलादापततीति न्यायात् । स्वर्गादृष्टदेवतादिप्रतिषेधं न प्रत्यक्षेण कर्तुमर्हति, तस्य संनिहितमात्रविषयत्वात् । न चायं तदप्रतिषेधेन खरखरकचार्वाक- 5 तामाप्नोति, प्रमाणान्तरं च तत्प्रतिषेधार्थ च नेच्छतीति विषममेतत्कथं कुर्यादिति सविस्मयं नश्चेतः । किं च । प्रत्यक्षमपि कथं प्रमाणतां स्वीकरोतीति वक्तव्यम्, गृह्यमाणपदार्थान्वयव्यतिरेकानुकरणात् । तथा हि - तत्समग्रसामग्रीकपदार्थबलेनोन्मज्जति, तदभावे विस्फारितेक्षणयुगलस्यापि प्रमातुर्नोदीयते इति ब्रूषे, परोक्षेऽपि तर्हि समानमेवैतत्, तदपि बहिरर्थ- 10 सामर्थ्यादेवोल्लसति, तत्संबद्धलिङ्गशब्दद्वारेण तस्योत्पत्तेः, अन्यथा परोक्षाभासताप्रसङ्गात् । तस्य चालीकत्वे पारमार्थिकपरोक्षप्रामाण्यक्षतेरयोगात्, अन्यथा प्रत्यक्षमपि गगनतलावलम्बिशशधरयुगलावलोकनचतुरमलीकमवलोकितमिति सकलाविशवदर्शनानि सत्यताभिमतान्यप्यलोकतामश्नुवीरन् । तन्न, प्रमाणभूतं परोक्षं कदाचन गृह्यमाणपदार्थसत्तां विहायोत्पत्तुमुत्सहेत, 15 इति प्रत्यक्षवत्प्रमाणकोटिमारोहति बलादिति स्थितम् ॥ तथा यदपि परैरुक्तद्वयातिरिक्तं प्रमाणसंख्यान्तरं प्रत्यज्ञायि, तत्रापि यत्पर्यालोच्यमानमुपमानार्थापत्तिवत्प्रमाणतामात्मसाक्षात्करोति, तदनयोरेव प्रत्यक्षपरोक्षयोरन्त - वनीयम् । यत्पुनर्विचार्यमाणं मीमांसकपरिकल्पिताभाववत्प्रामाण्यमेव नास्कन्दति, न तेन बहिर्भूतेन वा किंचिन्नः प्रयोजनम्, अवस्तुत्वादित्यपकर्ण- 20 नीयम् । अथ कथमुपमानस्य प्रामाण्यमिति ब्रूषे । तदुच्यते । प्रथमं हि विशददर्शनाधिगतगोपिण्डविशेषस्य 'यथा गौस्तथा गवयः' इति वाक्याकर्णनाहितात्मसंस्कारस्य पुंसोऽटव्यां पर्यटतो गवयपिण्डविशेषविषयविविक्तदर्शनपुरःसरं यत्पूर्वापरगोगवयपिण्डगोचरदर्शनव्यापारसंपादितजन्मकम् 'अयं तेन सदृशोऽनयोर्वा सादृश्यमिति' सादृश्यविशिष्टपिण्डं पिण्डविशिष्टं सादृश्यं 25 गोचरयत्संवेदनमुवीयते तदुपमानमिति । यदाहुस्तद्वादिन:
तस्माद्यदृश्यते तत्स्यात् सादृश्येन विशेषितम् । प्रमेयमुपमानस्य सादृश्यं वा तदन्वितम् ॥ १॥ इति ।
(श्लोकवार्तिके ४४४ पृष्ठे) 29
1 'स्मर्यते' इति पाठान्तरम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org