________________
न्यायावतारः, १
साक्षाद् ग्राह्यग्राहकं ज्ञानविशेष लक्षयति, तत्रैव रूढत्वात्, यथा गमनक्रियायां व्युत्पादितोऽपि गोशब्दः ककुदादिमन्तं पिण्डविशेषं गच्छन्तमगच्छन्तं वा गोचरयति, तत्रैव तस्य प्रसिद्धत्वात्, न गमनक्रियायुक्तमपि पुरुषादिकं
विपर्ययादिति । ततश्च सर्वज्ञज्ञानानां यत्स्वरूपसंवेदनं तदपि प्रत्यक्षमित्युक्तं 5 भवति । तत्रापि स्वरूपस्य ग्राह्यस्य साक्षात्करणसद्भावादिति । अक्षेभ्यः
परतो वर्तते इति परोक्षम्, अक्षव्यापारनिरपेक्षमव्यापारेणासाक्षादर्थपरिच्छेदकं यज्ज्ञानं तत्परोक्षमिति भावः । चशब्दौ प्रत्यक्षपरोक्षयोस्तुल्यकक्षतां लक्षयतः । तेन यत्परे प्राहुः, प्रत्यक्षं सकलप्रमाणज्येष्ठमित्यादि तदपास्तं भवति, द्वयोरपि प्रामाण्यं प्रत्यविशेषात्, विशदाविशदप्रतिभासविशेषस्य सतोऽपि ज्येष्ठतां प्रत्यनङ्गत्वात् । प्रत्यक्षस्य पुरःसरत्वात्परोक्षस्य कनिष्ठतेति चेत्, नायमेकान्तः, सर्वत्रान्यथानुपपन्नतावधारितोच्छासनिःश्वासादिजीवलिङ्गसद्भावासद्भावाभ्यां जीवसाक्षात्कारिप्रत्यक्षक्षणेऽपि जीवन्मृतप्रतीतिदर्शनात्, अन्यथा लोकव्यवहाराभावप्रसङ्गात् । क्वचित्प्रत्यक्षगृहीतसंबन्ध
बलात्परोक्षं प्रवर्तत इति प्रत्यक्षस्य ज्येष्ठत्वकल्पने पश्य मृगो धावतीत्यादि15 शब्दबलात्कृकाटिकामोटनद्वारेण मृगविषयं, तथा स्मरणात्संकेतग्रहणाद्वा
अपूर्वापूर्वार्थदर्शनकुतूहलादिना वनदेवकुलादिगोचरं परोक्षपूर्वं प्रत्यक्षं दृष्टमिति परोक्षस्य ज्येष्ठतासज्येत ।
द्विधेति । सर्व वाक्यं सावधारणं प्रवर्तते इति न्यायात्, अन्यथानियतार्थाप्रदर्शकत्वेन तदुच्चारणवैयर्थ्यप्रसङ्गात्, विपरीताकारनिराकरण20 चातुर्यायोगेन निराकाङ्क्ष प्रवृत्त्यसिद्धेः द्विधैव इत्यवधारणेन परपरिकल्पित
विपरीतसंख्यान्तरं तिरस्कुरुते, तस्य युक्तिबाधितत्वात् । तथा हिप्रत्यक्षमेवैकं प्रमाणमित्यसत्, परीक्षाभावे तस्यैव प्रामाण्यायोगात् । स हि काश्चित्प्रत्यक्षव्यक्तीरर्थक्रियासमर्थार्थप्रापकत्वेनाव्यभिचारिणीरुपलभ्यान्यास्त
द्विपरीततया व्यभिचारिणीश्च, ततः कालान्तरे पुनरपि तादृशेतराणां 25 प्रत्यक्षव्यक्तीनां प्रमाणतेतरते समाचक्षीत । न च पूर्वापरपरामर्शशून्यं
पुरोवर्त्यर्थग्रहणपर्यवसितसत्ताकं प्रत्यक्षं पूर्वापरकालभाविनीनां प्रत्यक्षव्यक्तीनां सादृश्यनिबन्धनं प्रामाण्यमुपलक्षयितुं क्षमते । न चायं स्वप्रतीतिगोचराणामपि प्रत्यक्षव्यक्तीनां प्रामाण्यं परं प्रतिपादयितुमीशः । तस्माद
वश्यंतया यथादृष्टप्रत्यक्षव्यक्तिसाधर्म्यद्वारेणाधुनातनप्रत्यक्षव्यक्तीनां प्रामाण्य30 प्रत्यायकं परप्रतिपादकं च परोक्षान्तर्गतमनुमानरूपं प्रमाणान्तरमुररी
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org