________________
न्यायावतारः, १
37
तदप्यसंबद्धम्, तदेकतया प्रथमज्ञानेन साकल्यग्रहणादुत्तरेषां सामान्यज्ञानानामधिगतार्थगोचरतयाप्रामाण्यप्रसङ्गात् । अथ विशेषः, स नित्योऽनित्यो वेति वक्तव्यम् । नित्यश्चेत्, एवं सत्याद्यसंवेदनेनैव तस्य सामस्त्यग्रहणादुत्तरेषां तद्विषयाणामधिगतगोचरत्वेनाप्रामाण्यप्रसक्तिः । अनित्यश्चेत्, पर्यायदूषणेन प्रतिक्षिप्तः । अथ सामान्यविशिष्टो विशेषः, कास्य विशिष्टता, 5 कि तादात्म्यमुत तत्संनिधिमात्रम् । तादात्म्यं चेत्, प्रथमज्ञानेन सामान्यवत्तस्यापि ग्रहणात्, अन्यथा तादात्म्यक्षतेः, तद्विषयान्यज्ञानानामप्रामाण्यं प्रसज्येत । तत्सांनिध्यपक्षेऽपि द्वयोरपि परस्परं विशकलितरूपत्वात् पक्षद्वयोदितं दूषणं पश्चाल्लग्नं धावति । विशेषविशिष्टसामान्यपक्षे पुनरेतदेव विपरीतं योज्यम् । तन्न, अनधिगतार्थाधिगन्तृत्वं ज्ञानस्य कथंचिद् विचार- 10 भारगौरवं सहत इत्यलक्षणमिति स्थितम् ॥ अविसंवादकत्वमधुना विचार्यते तत्कि प्रदर्शितार्थप्राप्त्या उत प्राप्तियोग्यार्थोपदर्शकत्वेन आहोस्विदविचलितार्थविषयत्वेन भवान् ज्ञानस्य प्रामाण्यं कथयति । यदि प्रथमः कल्पः, तदयुक्तम्, जलबुद्धदादिमुमूर्षुपदार्थोत्पादितसंवेदनस्याप्रमाणतोत्पत्तेः, प्राप्तिकाले तस्य ध्वस्तत्वात् । अथ द्वितीयः, तदप्यचारु, प्राप्त्ययोग्यदेशस्थितग्रह- 15 नक्षत्रादिगोचरज्ञानस्याप्रामाण्यप्रसक्तः, अनुचितदेशावस्थानेनैव प्राप्त्यनहत्वातेषाम् । अथ तृतीयः पक्षः, तत्राप्यविचलितविषयतां कथमवैषि । ज्ञानान्तरेण तद्विषयनिराकरणाभावादिति चेत्, एतदेवास्माभिरुदितं किं भवतः परुषमाभाति । न हि स्वपरप्रकाशि ज्ञानं बाधारहितं विमुच्यान्यस्य विषयानिराकरणं ज्ञानान्तरेण प्रेक्षामहे । तत्तदेव न्यायात्प्रमाणं भवद्भिरभ्युपगत- 20 मिति ॥ अर्थोपलब्धिहेतुः प्रमाणमित्येतदपि न परीक्षा क्षमते, शरीरादेरपि तत्कारणतया प्रामाण्यप्रसङ्गात् । अव्यवहितमर्थोपलम्भकारणं प्रमाणं न देहादिकमिति चेत्, एवं तर्हि ज्ञानमेव स्वपराविर्भावकं निर्बाधकं च प्रमाणं न संनिकर्षादि, तत्सद्भावेऽप्यर्थपरिच्छेदाभावात् । तस्मादेतदेव चारु प्रमाणलक्षणमिति ॥
25 अधुना तत्संख्यामाह-प्रत्यक्षं चेत्यादि । तत्र सिद्धान्तप्रसिद्धपारमार्थिकप्रत्यक्षापेक्षयाक्षशब्दो जीवपर्यायतया प्रसिद्धः, इह तु व्यावहारिकप्रत्यक्षप्रस्तावादक्षध्वनिरिन्द्रियवचनो गृह्यते । ततश्चाक्षं प्रतिगतं प्रत्यक्षम् । यदिन्द्रियमाश्रित्योज्जिहीतेऽर्थसाक्षात्कारि ज्ञानं तत्प्रत्यक्षमित्यर्थः । एतच्च प्रत्यक्षशब्दव्युत्पत्तिनिमित्तं न तु प्रवृत्तिनिमित्तम । स ह्येवं व्युत्पादितोऽपि 30
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org