________________
36
प्रामाण्यमिति चेत्, विशीर्णेदानीं प्रमाणेयत्ता, देहादेरपि तत्कारणतया प्रामाण्यापत्तेरित्यास्तां तावत् ।
'बाधविवर्जितम्' इत्यमुना तु यत्तिमिरादितिरस्कृतनयनदीधितिप्रसरादिना नभस्तलावलम्बिनिशीथिनीनाथद्वयादिप्रतिभासम्, यच्च कुतर्क भ्रान्तचेतसां निजदर्शनाकर्णनप्रभवं क्षणक्षयिसामान्यविशेषैकान्तेश्वरादिकृतभुवनप्रतिभासं ज्ञानं तत्प्रत्यनीकार्थप्रत्यायकप्रमाणान्तरोपनिपातप्लावितत्वात् प्रतिक्षिपति । विशेषार्थविशब्दोपादानात्तु यः खलु बहुलकामलावलेपलुप्तलोचनबलानां धवले जलजे पीतिमानमादधानो बोधः समुल्लसति, स यद्यपि सकलं कालं तद्दोषाव्युपरमे प्रमातुर्निजदर्शनेन न बाध्यते, तथापि तज्जल10 जधवलताग्राहिणा जनान्तरदर्शनेन बाधितत्वान्न प्रमाणमित्युक्तं भवति ।
समस्तलक्षणेन तु यत्परे प्रत्यपीपदन् अनधिगतार्थाधिगन्तु प्रमाणम् अविसंवादकं प्रमाणम्, अर्थोपलब्धिहेतुः प्रमाणम् इत्यादि तन्निरास्थत्, तथा हि - अनधिगतार्थाधिगन्तृत्वं किमभिधीयते 1 ज्ञानान्तरेणानधिगतमर्थं यदधिगच्छति तत्प्रमाणमिति चेत्, तर्हि तज्ज्ञानान्तरं परकीयं स्वकीयं वा । तद्यदि परकीयम्, तदयुक्तम्, सर्वज्ञज्ञानस्य सकलार्थगोचरतया सर्वप्राकृतलोकज्ञानानामधिगतार्थाधिगन्तृत्वेनाप्रामाण्यप्रसङ्गात्, तदर्थग्राहिजनान्तरदर्शनसंभवाच्च । अथ स्वकीयं तत्रापि सोऽधिगम्योऽर्थः किं द्रव्यमुत पर्यायो वा । द्रव्यविशिष्टपर्यायः, पर्यायविशिष्टं वा द्रव्यमिति । तथा किं सामान्यमुत विशेषः । आहोस्वित् सामान्यविशिष्टो विशेषः विशेषविशिष्टं वा सामान्यम् । इत्यष्टौ पक्षाः । तत्र यद्याद्यमुररीकुरुषे तदयुक्तम्, द्रव्यस्य नित्यत्वैकत्वाभ्यामनधिगतत्वांशाभावात् । अथ द्वितीयम्, तदप्यचार, पर्यायस्य प्राचीनसंवेदनोदयसमयध्वस्तस्य संवेदनान्तरप्रभवकालं यावत्प्रतीक्षणासंभवेन विशेषणानर्थक्यात् । उत तृतीयम्, तदप्यसाधीयः, विकल्पद्वयानतिक्रमात् । स हि द्रव्यविशिष्टः पर्यायः समकालभाविना ज्ञानेनानधिगतोऽधिगम्यते, यद्वा कालान्तरभाविनेति । न तावत्समकालभाविना, तत्संभवाभावेन विशेषणवैफल्यात् । न हि संभवोऽस्त्येकस्य प्रमातुरेककालं द्रव्यकोडीकृतैकपर्यायविषय संवेदनद्वयप्रवृत्तेः, तथानुभवाभावात् परस्परमधिगतार्थाधिगन्तृत्वेनाप्रामाण्यप्रसङ्गाच्च । नापि कालान्तरभाविना, गृह्यमानपर्यायस्य कालान्तरानास्कन्दनात्, पूर्वोत्तरक्षणत्रुटितवर्तमान क्षणमात्र संबन्धत्वात्तस्य । एतेन पर्यायविशिष्टद्रव्यपक्षोऽपि प्रतिव्यूढः समानयोगक्षेमत्वात । अथ सामान्यं,
5
15
20
25
30
Jain Education International
न्यायावतारः, १
For Personal & Private Use Only
www.jainelibrary.org