________________
न्यायावतारः, १
अथार्थाभावेऽपि स्वप्नदशायां वनदेवकुलादिनानाप्रतिभासं ज्ञानमवलोकितमिति तथाभूतं सकलं ब्रूषे, तन्त्र, तस्यापि जाग्रदवस्थाभाविसद्भूतार्थदर्शनसंपादितात्मसंस्कारमिद्धादिकारणकलापसंनिधानप्रबोधव्यपेक्षत्वात् इतरथात्यन्तानुभूतभूतपञ्चकातिरिक्तषष्ठभूतप्रतिभासः स्यात् । किं च । कथमेकं ज्ञानं सितपीताद्यनेकाकारविवर्तमिति प्रष्टव्यो भवान् । अनाद्यविद्यावासनात इति चेत्, अत्रापि विकल्पयुगलममलमवतरति, ततो ज्ञानात् सा वासना व्यभैत्सीद् न वा । व्यत्यरैक्षीच्चेद्, एवं सति तद्ग्राहक प्रमाणमभिधानीयम्, ज्ञानव्यतिरिक्तायाः संवेदनाभावात्, तत्संवेदने चार्थस्यापि व्यतिरिक्तस्य संवेदनमिति स दुष्प्रतिषेधः स्यात् । वेद्यवेदकाकारकलुषिताज्ज्ञानादेव व्यतिरिक्ता तत्कारणभूता ज्ञानरूपैव सानुमीयते इति चेन्न, तया सह संबन्धग्रहणाभावात्, दृष्टहान्यदृष्टपरिकल्पनाप्रसङ्गाच्च । किं च । यथा व्यतिरिक्तवासनावशादेकमपि ज्ञानं नानाकारम्, तथा जडमपि तद्वशादेव बोधरूपं प्रकाशत इति विपरीतापत्तेरर्थ एव सिद्धिमास्कन्देद् न ज्ञानम् । अथाव्यतिरिक्ता, हन्त ज्ञानमेव तन्न वासना, तदव्यतिरिक्तत्वात् तत्स्वरूपवदित्यास्तां तावत् । पराभास्यपि स्वप्रकाशाभावादभिदधीरन्, तदप्यसंबद्धम् । स्वप्रकाशाभावे परप्रकाशायोगात् । न हि प्रदीपः स्वरूपमनुद्द्योतयन् घटाद्युद्दयोतने व्याप्रियते । स्वयं चाप्रतीतमपि यद्ययं ग्राहयति ज्ञानम्, देवदत्तस्योत्पन्नं ( ज्ञानं ) यज्ञदत्तं ग्राहयेत्, विशेषाभावात् । अन्यच्च । परप्रकाशनमात्रेऽपि दूरासन्नादिभेदः प्रथमानानामर्थानां किमपेक्षश्चकास्ति, शरीरापेक्ष इति चेत्, न तस्यापि प्रकाश्यताविशेषात् तस्मादन्तर्मुखाकारस्य बहिरर्थग्रहणे सति अयं घटामाटीकते नान्यथा । अथार्थापत्त्यादिना प्रमाणान्तरेण तदन्तर्निविष्टं गृह्यते, ततस्तदपेक्षया योक्ष्यते दूरासन्नादिभेद इति चेत्, न, तत्रापि विकल्पयुगलकानतिवृत्तेः । तथा हि- तत्प्रमाणान्तरं स्वप्रकाशमन्यप्रकाशं वा । स्वप्रकाशं चेत्, प्रथमस्य किं भ्रूणम् । अन्यप्रकाशं चेत्, तत्रापीयमेव वार्ता इत्यनवस्था, तस्मात् स्वरूपमवभासयदेव ज्ञानमर्थग्रहणाय व्याप्रियते इति स्थितम् ॥
'ज्ञानम्' इत्यनेन तु यन्नैयायिकादिभिः पर्यकल्पि संनिकर्षः प्रमाणमिति, तस्य प्रामाण्यं निरस्यति । यतः स्नानपानावगाहनाद्यर्थक्रियानिर्वर्तनक्षममर्थं निश्चित्याव्यवधानेन प्रवर्तन्ते प्रमातारस्तदेव ज्ञानं प्रमाणं न संनिकर्षो जडतयास्ति, अव्यवहितनिर्णयाभावादित्याकूतम् । अर्थोपलब्धिहेतुत्वात्तस्य
Jain Education International
For Personal & Private Use Only
35
5
10
15
20
25
30
www.jainelibrary.org