________________
34
न्यायावतारः, १
सकाः। परस्परविभक्तौ सामान्यविशेषाविति नैयायिकवैशेषिकाः। त्रैगुण्यरूपं सामान्यमिति सांख्याः । भूतचतुष्टयं प्रमाणभूमीति चार्वाकाः ॥ तथा फलेऽपि विप्रतिपद्यन्ते, अर्थाधिगतिः प्रमाणफलमिति सौगताः । पूर्व पूर्व प्रमाणमुत्तरमुत्तरं तु फलमिति मीमांसकादयः ।
तत्र तावल्लक्षणसंख्याविप्रतिपत्ती निराचिकीर्षुराहप्रमाणं स्वपराभासि ज्ञानं, बाधविवर्जितम् । प्रत्यक्षं च परोक्षं च द्विधा, मेयविनिश्चयात् ॥ १ ॥
तत्रापि पूर्वार्धेन लक्षणविप्रतिपत्तिमुत्तरार्धेन तु संख्याविप्रतिपत्तिं निराचष्टे । लक्षणं च पररूपेभ्यो व्यावर्तनक्षमोऽसाधारणधर्मः । लक्ष्यते 10 परिच्छिद्यते विजातीयेभ्यो व्यावृत्तं लक्ष्यं येन तल्लक्षणमित्युच्यते । तच्चेह
द्वये प्रत्याय्याः स्वदर्शनानुरक्तान्तःकरणास्तीर्थान्तरीया विप्रतिपन्नाः, तथा मुग्धबुद्धयो लौकिका अव्युत्पन्नाश्चेति । ततश्च यवादौ विप्रतिपन्नान् प्रति लक्षणं तदैवं लक्ष्यलक्षणभावो द्रष्टव्यः । यदिदं भवतामस्माकं च प्रमाण
मिति प्रसिद्धम्, तत्स्वपराभासि ज्ञानं बाधविवर्जितं मन्तव्यम्; प्रसिद्धं 15 प्रमाणमनूद्याप्रसिद्धं स्वपराभासित्वादि विधीयते । यदा तु अव्युत्पन्नमतीन्
प्रतीदं लक्षणम्, तदा प्रतिप्राणि स्वपरप्रकाशिनो ज्ञानस्य बाधारहितस्य कस्यचित् सिद्धत्वात्, अन्यथा प्रतिनियतव्यवहारोच्छेदप्रसङ्गात्, एवं ते बोध्यन्ते – यददो भवतां क्वचिनियतार्थग्राहि स्वपरप्रकाशकं बाधरहितं ज्ञानं
प्रसिद्धं तत् प्रमाणमिति बुध्यन्ताम् । अत्रापि सिद्धस्यानुवादोऽसिद्धस्य 20 विधानं योज्यम् ॥
___ अधुनाक्षरार्थ:-तत्र प्रमाणमिति पूर्ववत् । स्व आत्मा स्वरूपं, परोऽर्थः, तावाभासयितुं प्रकाशयितुं शीलमस्य तत्तथा । ज्ञायते निर्णायते तत्त्वं येन तद् ज्ञानम् । बाध्यतेऽनेनेति बाधः, विपरीतार्थोपस्थापकप्रमाण
प्रवृत्तिरिति यावत् । तेन विशेषेण वर्जितं रहितं यज्ज्ञानं तत्प्रमाणमिति 25 संटङ्कः ॥
इह च व्यवच्छेद्यापेक्षया लक्षणे विशेषणप्रवृत्तेः स्वपराभासि इत्यनेन ये स्वाभास्येव ज्ञानं मन्यन्ते ज्ञानवादिनो बौद्धविशेषाः, ये च पराभास्येव मीमांसकनैयायिकादयस्ते निरस्ताः । ते हि बहिरर्थाभावात् ज्ञानं स्वांशपर्यवसितसत्ताकमित्याचक्षीरन्, तदयुक्तम् । ज्ञेयार्थाभावे ज्ञानाभावप्रमङ्गात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org