________________
न्यायावतारः
33
अधुनाक्षरार्थो विवियते तत्र यद्यपि प्रमाणशब्दस्य सर्वकारकर्भावेन च व्युत्पत्तेः सुकरत्वात् “कृत्यल्युटो बहुलम्" (पा० ३-३-११३) अन्यत्रापि (पा० ३-३-१३०) इति वचनाद् यथाक्रमममी कर्थादिकारकभावव्युत्पत्त्या प्रमाणशब्दवाच्याः, तद् यथा 'आत्मार्थज्ञानार्थक्रियाकारणकलापक्षयोपशमक्रियारूपाः, तथापीह ज्ञानमेवाधिक्रियते, तस्यैव परीक्षाक्षमत्वात, इतरेषां 5 परीक्षायाः तत्पुरःसरत्वात्, वैयर्थ्याच्च ।" तथा हि - नार्थस्तावदात्मनः परीक्षया, तस्य भ्रान्ताभ्रान्तज्ञानेषु समानत्वात् । नाप्यर्थस्य, तस्योपेयत्वात्, उपायभूतज्ञानपरीक्षणेनैव गतत्वात् । नार्थक्रियायाः, तदवनतौ परीक्षावैयात् । नापि कारणकलापस्य, ज्ञानोत्पत्तेः प्राक् स्वरूपानवगतः, पश्चात् तत्स्वरूपनिर्णयादेव तत्साद्गुण्यवंगुण्यावगते रर्थक्यात् । नापि क्षयोपशमस्य, 10 तस्य ज्ञानोत्पादोन्नीयमानरूपत्वात् । नापि प्रमितिमात्रस्य, तस्य प्रमाणसाध्यतया तच्चारुताद्वारेणैव समीचीनतासिद्धेरिति । तदयमभिप्रायःयद्यपि अनन्तधर्माध्यासिते वस्तुनि सर्व एव शब्दार्था निरुपचरिता घटन्ते, तथापि येनार्थ परिच्छिद्यार्थक्रियासमर्थार्थप्रार्थनया प्रवर्तन्ते प्रमातारस्तदेवेह ज्ञानमात्मना सह धर्मिरूपतया तादात्म्येऽपि धर्मरूपतया व्यतिरिक्तं प्रमी- 15 यतेऽनेनेति प्रमाणमित्युच्यते । तस्य व्युत्पादनं परपरिकल्पितलक्षणादिव्युदासेन स्वाभिप्रेतलक्षणादिस्वरूपप्रकाशनम् । तदर्थम् - अर्थशब्दः प्रयोजनपर्यायः इदम् इति अर्थरूपतया स्वचेतसि विवर्तमानप्रकरणशरीरं परामशति । द्विविधं हि प्रकरणशरीरम, शब्दोऽर्थश्चेति, बहिः शब्दरूपतया प्रकाशयिष्यमाणत्वेऽप्यन्तस्तत्त्वार्थाकारेण प्रत्यक्षत्वाद् । आरभ्यते इति पदवाक्यश्लो- 20 कादिरचनया प्रक्रियते इति यावत् ।
इह च लक्षणसंख्यागोचरफलेषु प्रमाणं प्रति विप्रतिपद्यन्ते परे । तथा हि लक्षणे तावत्, प्रमाणमविसंवादि ज्ञानमिति सौगताः । अनधिगतार्थाधिगन्तृ प्रमाणमिति मीमांसकाः । अर्थोपलब्धिहेतुः प्रमाणमिति नैयायिकादयः ॥ तथा संख्यायां, प्रत्यक्षानुमाने द्वे एव प्रमाणे इति सौगताः । प्रत्यक्षानुमान- 25 शब्दोपमानार्थापत्त्यभावाः प्रमाणानीति मीमांसकाः । प्रत्यक्षानुमानशब्दोपमानानि प्रमाणानीति नैयायिकाः । प्रत्यक्षानुमानशब्दानि प्रमाणानीति वैशेषिकाः । एतान्येव सांख्याः । प्रत्यक्षमेवैकं प्रमाणमिति चार्वाकाः ॥ तथा गोचरे, परस्परविनि ठितक्षणक्षयिपरमाणुलक्षणानि स्वलक्षणानि प्रमाणगोचरस्तात्त्विक इति बौद्धाः । सामान्यविशेषात्मकं वस्त्विति मीमां- 30
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org