________________
222
32
जायन्ते, अतः सकलवचनेष्वनाश्वास इति । एवं तर्हि चिकिचिकायमानमरुमरीचिकाच ऋचुम्बि यज्जलोल्लेखि विशददर्शनमुदयपदवीं समासादयति तदलीकमवलोकितमिति, सकलाध्यक्षेष्वनाश्वास इत्यभिदध्महे । पाश्चात्यविपरीतार्थोपस्थापकप्रमाणबाधितत्वाद् मरीचिकासु जलज्ञानमप्रमाणं न शेष सत्यस्तम्भादिज्ञानानि, बाधारहितत्वादिति चेत्; तर्हि ध्वनावप्ययं न्यायः कि काकैर्भक्षितः । न हि वयं सर्वशब्दानां प्रामाण्यं प्रतिपद्येमहि, कि तर्हि सुनिश्चिताप्तप्रणेतृकाणामेव । तन्न प्रामाण्यं प्रति प्रत्यक्षशब्दयोर्विशेषमुपलभामहे । एष तु विशेषः स्यात्, प्रत्यक्षं चक्षुरादिसामग्रीविशेषजन्यत्वात् संनिहितनियतार्थग्राहि स्पष्टप्रतिभासम्, शाब्दं तु तथाविधकारणविकलत्वाद् 10 नियतानियतार्थग्राहि अस्पष्टप्रतिभासम् । न च एष विशेषः प्रामाण्यक्षतिकारी, इतरथानुमानस्याप्यप्रामाण्यमासज्येत, तस्याप्यविशदानियतार्थग्राहित्वात् । परमार्थतस्तु त्रिकालव्यापिनः सर्वार्थग्रहणस्वभावत्वेऽपि आवरणतिरस्कृतस्य जीवद्रव्यस्य चक्षुरादिसामग्रीसापेक्षावरणक्षयोपशमवशात् संनिहितस्पष्टार्थ ग्रहणपरिणामः प्रत्यक्षमित्युच्यते । शब्दसापेक्षक्षयोपशमात्तु नियतानियताविशदार्थग्रहणपरिणामस्तु शाब्दमिति 1 तन्न तदुत्पत्तितदाकारते प्रत्यक्षे शाब्देऽन्यस्मिन् वा ज्ञाने वास्तव्यौ स्तः । तस्मात्पारमार्थिकाभिधेयप्रयोजनसम्बन्धप्रतिपादकमेतदादिवाक्यमिति स्थितम् ॥
तत्राभिधेयं वाच्यं तच्चेह प्रमाणम्, तस्यैव प्रकरणेन प्रतिपाद्यत्वात्, तत् प्रमाण इत्यवयवेन लक्षयति । प्रयोजनं द्विधा, श्रोतुः कर्तुश्च । पुनरपि 20 द्विविधं, अनन्तरं व्यवहितं च । तत्र श्रोतुरनन्तरप्रयोजनं प्रमाणविषया व्युत्पत्तिः, कर्तु र्व्युत्पद्यमानस्य प्राज्ञत्वात् शिष्यस्य व्युत्पादनम् । तत्रात्मप्रयोजनं दर्शयन्नारभ्यते इति अस्य मयेतिपदसव्यपेक्षत्वात् । शिष्यप्रयोजनं तु व्युत्पदित्यनेनोपसर्गधातुसमुदायेनैव तदन्तर्गतं लप्स्यते इत्यभिप्रायवान् कर्ता आत्मव्यापारं णिजन्तेन निर्दिशति - प्रमाणव्युत्पादनार्थमिति । व्यवहितप्रयोजनं द्वेधा, व्यावहारिकं पारमार्थिकं च । व्यावहारिकं हेयोपादेयोपेक्षणीयेष्वर्थेषु हानोपादानोपेक्षालक्षणम् । पारमार्थिकम् अभ्युदयनिःश्रेयसावाप्तिरिति । एतत्तु साक्षादनुक्तमप्यनन्तरप्रयोजन फलत्वात् तद्वचनेनैवाक्षिप्तमवगन्तव्यम् । संबन्धस्तूपायोपेयलक्षणः, तत्रोपेयं प्रकरणार्थपरिज्ञानम्, प्रकरण मुपायः, ततस्तदभिलषता प्रकरणमिदमारम्भणीयमिति अनुक्तोऽपि वचनेन 30 संबन्धोऽर्थाद् गम्यते इति तात्पर्यार्थः ।
5
15
25
Jain Education International
न्यायावतारः
For Personal & Private Use Only
www.jainelibrary.org