________________
न्यायावतारः
---
10
स्यात् । उत तद्ग्रहणमध्यवसायः, तदा स्वलक्षणनिष्ठता विकल्पस्य स्ववाचा भवद्भिः प्रतिपन्ना स्यात् । एवं च विकल्पयुगलकेऽप्यर्थक्रियासमर्थार्थपर्यवसितसत्ताकता विकल्पस्याढौकते । यदा च विकल्पः स्वलक्षणसौधमध्यमध्यास्त इति अभिदध्याः, तथा सति ध्वनेरपि तदन्तःप्रवेशो दुर्निवारः स्यात्, तत्सहचरत्वात् । यदाह भवदाचार्य :- स एव शब्दानां विषयो यो विकल्पानामिति । न च विकल्पं व्यतिरिच्य सादृश्यव्यवस्थापकमन्यदस्ति, प्रत्यक्षस्य सकलजगद्विलक्षणस्वलक्षणग्रहणप्रवणत्वात् । तद् यदि तत्सदृशतयोत्पत्तिस्तदाकारता, तदा प्रतिपादितन्यायाद् विकल्पस्य संनिहितार्थग्रोचरतोररीकर्तव्या, तथा च ध्वनिरपि तद्विषयः सिध्यतीति सिद्धं नः समीहितम् । अन्यथा तदाकारता न समस्ति, गत्यन्तराभावात् । तन्न तदुत्पत्तितदाकारते ग्राह्यग्राहकभावहेतु संस्तः । संस्तां वा, तथापि विकल्पतः पर्यनुयोज्यो भवान् । किमेते ग्रहणकारणं पार्थक्येन उत सामस्त्येन । तद् यद्याद्यः पक्षः, कपालक्षणो घटान्त्यक्षणस्य ग्राहकः प्राप्नोति तज्जन्यत्वात्, जलचन्द्रो वा नभश्चन्द्रस्य ग्राहकः स्यात् तदाकारत्वात् । अथ द्वितीयः, तथा सति घटोत्तरक्षणः पूर्वक्षणस्य ग्राहक: प्रसज्जति, तदुत्पत्तेस्तदाकारत्वाच्च । जडत्वादर्थस्य न ग्राहकत्वमपि तु ज्ञानस्य तदुत्पत्तितदाकारतयोः सत्योरिति चेत्, इदमिदानीं विदितमस्माभिः, एतदपि समानार्थग्राहिप्राचीन संवेदनक्षणलक्षणमनस्कारोत्पाद्यज्ञाने ग्राहकलक्षणं व्यभिचरति, उत्पादकप्राक्तनक्षणवर्तिमनस्कारग्राहकत्वात् । तदध्यवसायसाहित्येन तदुत्पत्तितदाकारतयोर्ग्रहणकारणत्वं संपूर्ण मनस्कारे तन्नास्तीति चेत्, किमिदं भिन्नगोचरेण सह साहित्यम् । तथा हि-अध्यवसायो वासनाप्रबोधवशादुत्पन्नः सामान्यमनर्थरूपं विकल्पयति । प्रत्यक्षं बहिरार्थाल्लब्ध्वात्मलाभं तदाकारं तमेव साक्षात्करोति - इति भवतां दर्शनम्, तन्न विकल्पसाहित्यं प्रत्यक्षस्य कंचन विशेषं पुष्णाति । तदिदं ग्राह्यग्राहकभावकारणं प्रत्यक्षेऽपि यद् भवद्भिरभ्यधायि, तद् यथा यथा विचार्यते तथा तथा विशीर्यत इत्यनपेक्षणीयम् । तद् यथाकथंचित् प्रत्यक्षस्य प्रतिपादितग्राह्यग्राहकभावलक्षणर्वकयेsपि ग्राहकत्वम् अर्थस्य ग्राह्यत्वम्, तथा दृष्टत्वात्, अन्यथा निखिलव्यवहारोच्छेदप्रसङ्गात् भवद्भिरपि प्रत्यादि । तथा शब्दस्य वाचकत्वमर्थस्य वाच्यत्वं प्रतिपद्यध्वं यूयम्, अत्रापि दृष्टहानेः व्यवहारोच्छेदस्य समानत्वात् । अथ इत्थमाचक्षीथाः, यथा – नद्यास्तीरे गुडशकटं पर्यस्तं धावत धावत डिम्भकाः – इत्यादिविप्रतारकपुरुषवचनश्रवणात् प्रवर्तमाना विप्रलम्भताभाजो
Jain Education International
31
For Personal & Private Use Only
5
15
20
25
30
www.jainelibrary.org