________________
30
न्यायावतारः
15
कक्षीकरणीयः, समकालभाविनि व्यापाराभावात्, इतरर्थकक्षणवतिनां समस्तार्थक्षणानामितरेतरं कार्यकारणभावः प्रसज्येत, तथा च तत्प्रयुक्तो ग्राह्यग्राहकभावश्चेत्यसमञ्जसमापनीपद्येत । अथ स्वक्षणात्पूर्वम्, अचारु एतदपि, स्वयमसतो भविष्यच्छङ्खचक्रवादेरिव पूर्वकालवर्तिनि कार्ये व्यापाराभावात् । अथ स्वक्षणावं कार्य विधत्त इति मन्येथाः, एतदप्यसाधीयः, विनष्टस्य कार्यकरणाक्षमत्वात्, अन्यथा मृतस्य शिखिनः केकायितं स्यात् ॥ तदाकारतापि किमर्थाकारसंक्रान्त्या, अथ तत्सदृशतयोत्पत्तेर्ज्ञानस्येति । यद्याद्यः कल्पः, तदयुक्तम्, ज्ञाने स्वाकारार्पणादर्थस्य निराकारतानुषङ्गात् स्वदेहे पृथुतरार्थ
दर्शनप्रसङ्गात्, शिरःस्फोटनप्लावनाद्यनर्थप्रसक्तेश्च । अथ द्वितीयः, तथा 10 सति सादृश्यवशादर्थव्यवस्थेत्यायातम् । न च सादृश्यं भवतां दर्शने तात्त्वि
कमस्ति, विविक्तक्षणक्षयिपरमाणुलक्षणस्वलक्षणानां पारमार्थिकत्वाभ्युपगमात्। अनादिकालालीनवासनाप्रबोधसंपादितसत्ताकनिर्विकल्पकविविक्तदर्शनोत्तरकालभाविविकल्पव्यवस्थापितसादृश्यवशादर्थग्रहणनियमे सत्येकनीलस्वलक्षणे क्षणे संकलकालकलापव्यापिकाककुवलयादिगतनीलताया व्यवस्थितिरविशेषेणानुषज्येत, तथा च प्रतिनियतो ग्राह्यग्राहकभावो न घटामटाटयेत । अमुल्यप्रनिर्दिश्यमानपुरोवतिनीलस्वलक्षणदर्शनग्लायातत्वात् नल्यविकल्पस्य तदेवाध्यवस्यति न भूतं भावि काककुवलयादिगतं वा इति चेत्, तहि विकल्पः स्वलक्षणनिष्ठः प्राप्तः, नियतदेशदशावच्छिन्नार्थक्रियासमर्थार्थग्रहणात् । तथा हि
तदध्यवसायः किं तद्विकल्पनम् उत तद्ग्रहणम् । न तावत् तद्विकल्पनम्, . 20 विकल्पानां भवदभिप्रायेण स्वलक्षणान्तःप्रवेशाभावात् । तदुक्तम् -
'तेनान्यापोहविषयाः प्रोक्ताः सामान्यगोचराः।
शब्दाश्च बुद्धयश्चैव वस्तुन्येषामसंभवात् ॥१॥ इति । अथ ब्रूयात् – यद्यपि विकल्पाः सामान्यं गोचरयन्ति तत्त्वतः, तथापि प्रत्यक्षविकल्पयोर्योगपद्येन प्रवृत्तेविमूढः प्रतिपत्ता विकल्पस्यापि स्वलक्षण25 निष्ठतां व्यवस्यति । तथा चोक्तम् -
मनसोर्युगपद्वत्तेः सविकल्पाविकल्पयोः । विमूढो लधुवृत्तेर्वा तयोरक्यं व्यवस्यति ॥१॥ इति । तत् किमिदं शपथैः प्रत्येयं यदुत मोहाद् विकल्पेन स्वलक्षणमध्यवस्यति न पुनविशदनिर्भासेन साक्षात्करोति । एवं चाध्यक्षमपि सकलार्थव्यक्तीर्गोचर30 यति, विकल्पमोहात्तु संनिहितविषयं लक्ष्यते इति परोऽनुषञ्जयन् दुनिवारः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org