________________
श्रीसिद्धसेनदिवाकरविरचितः
न्यायावतारः श्री सिद्धर्षिगणिकृतविवृतिसहितः ।
अवियुतसामान्यविशेषदेशिनं वर्धमानमानम्य । न्यायावतारविवृतिः स्मृतिबीजविवृद्धये क्रियते ॥ १ ॥
तस्य चेदमादिवाक्यम्
Jain Education International
प्रमाणव्युत्पादनार्थमिदमारभ्यते ।
-
प्रमाणेत्यादि । अनेन च तादात्म्यतदुत्पत्तिलक्षणसंबन्धविकलतया ध्वनेर्बहिरर्थं प्रति प्रामाण्यायोगादभिधेयादिसूचनद्वारोत्पन्नार्थसंशयमुखेन श्रोतारः श्रवणं प्रति प्रोत्साह्यन्ते इति धर्मोत्तरो मन्यते । तदयुक्तम् । यदि हि शब्दस्यार्थप्रकाशनं प्रति सामर्थ्यं न समस्ति तत् कथमसावभिधेयादिसूचने पटिष्ठः स्यात् । न च तस्याप्रामाण्ये एतच्छ्रवणादर्थसंशयं कुर्वन्ति प्रेक्षावन्तः, तद्वत्ताहानेः मिथ्याज्ञानादपि प्रवृत्त्यविरामप्रसङ्गाच्च । अर्चंटस्त्वाह न श्रावकोत्साहक मेतत्, प्रामाण्याभावात् तेषां चाप्रामाण्यादप्रवृत्तेः, किं तर्हि प्रकरणार्थकथनावसरोपस्थितपरोपन्यस्तहेत्वसिद्धतोद्भावनार्थम् । तथा हिसंभवत्येवंवादी - नारब्धव्यमिदम्, अभिधेयादिशून्यत्वात्, काकदन्तपरीक्षादिवदिति, तदनेनास्य तद्वत्ताप्रकाशकेन वचसा तद्धेतूनामसिद्धतोद्भाव्यत इति । तदयुक्ततरम्, यतो यदीदमप्रमाणमिति नाभिधेयादीनि साक्षाल्लक्षयत् प्रवर्तयति, ततः परोपन्यस्तहेत्वसिद्धतां कथयतीति युक्तिरिक्तं पश्यामः, अप्रमाणस्याकिंचित्करत्वात्, अन्यथा प्रमाणविचारणमानर्थक्यमश्नुवीत । तस्मादिदं प्रमाणभूतं सदभिधेयादीनि प्रतिपादयत् प्रेक्षावतः प्रवर्तयतीति प्रकरणादावुपन्यस्तम् । संबन्धशून्यत्वादस्य कथमर्थे प्रमाणतेति चेत्, प्रत्यक्षेऽपि कथं तहि सेति वाच्यम् । ग्राह्यग्राहकभावसंबन्धबलादिति चेत्, अत्रापि वाच्यवाचकभावादिति ब्रूमः । स एव कथमिति चेत्, अध्यक्षेऽपि वेद्यवेदकभावः कथमिति वाच्यम् तदुत्पत्तितदाकारताभ्यामिति चेत्, केयं तदुत्पत्तिर्नाम । तज्जन्यतेति चेत् । प्रतिक्षणं भङ्गुरत्वे सैव दुरुपपादेत्याचक्ष्महे । तथा हि-क्षणनश्वरोऽर्थः स्वक्षणे पूर्वं पश्चाद् वा कार्यं कुर्यादिति त्रयी गतिः । तत्र न तावदाद्यः पक्षः
25
5
For Personal & Private Use Only
10
15
20
www.jainelibrary.org