Book Title: Nyayavatara and Nayakarnika
Author(s): Siddhasena Divakar, Vinayvijay, A N Upadhye
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
114
द्वात्रिंशिका, २
अप्येव नाम दहनक्षतमूलजाला लक्ष्मीकटाक्षसुभगास्तरवः पुनः स्युः । न त्वेव नाथ जननक्लममूलपादास् त्वदर्शनानलहताः पुनरुद्भवन्ति ॥ ५ ॥ उत्त्रासयन्ति पुरुष भवतो वचांसि विश्वासयन्ति परवादिसुभाषितानि । दुःखं यथैव हि भवानवदत्तथा तत् तत्संभवे च मतिमान् किमिवाभयः स्यात् ॥ ६ ॥ स्थाने जनस्य परवादिषु नाथबुद्धिर् द्वेषश्च यस्त्वयि गुणप्रणतो हि लोकः । ते पालयन्ति समुपाश्रितजीवितानि त्वामाश्रितस्य हि कुतश्चिरमेष भावः ॥७॥ चित्रं किमत्र यदि निर्वचनं विवादा न प्राप्नुवन्ति ननु शास्तरि युक्तमेतत् । उक्तं च नाम भवता बहुनकमार्ग निर्विग्रहं च किमतः परमद्भुतं स्यात् ॥ ८॥ मां प्रत्यसौ न मनुजप्रकृतिजिनो ऽभूत् शङ्के च नातिगुणदोषविनिश्चयज्ञः । यत्त्वां जिन त्रिभुवनातिशयं समीक्ष्य नोन्मादमाप न भवज्वरमुन्ममाथ ॥९॥ अन्ये ऽपि मोहविजयाय निपीड्य कक्षाम् अभ्युत्थितास्त्वयि विरूढसमानमानाः । अप्राप्य ते तव गति कृपणावसानास त्वामेव वीर शरणं ययुरुद्वहन्तः ॥१०॥ तावद्वितर्करचनापटुभिर्वचोभिर् मेधाविनः कृतमिति स्मयमुद्वहन्ति । यावन्न ते जिन वचस्स्वभिचापलास्ते सिंहानने हरिणबालकवत्स्खलन्ति ॥ ११ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org