Book Title: Nyayavatara and Nayakarnika
Author(s): Siddhasena Divakar, Vinayvijay, A N Upadhye
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
द्वात्रिंशिका, ३
क्वचिनियतिपक्षपातगुरु गम्यते ते वचः स्वभावनियताः प्रजाः समयतन्त्रवृत्ताः क्वचित् । स्वयं कृतभुजः क्वचित् परकृतोपभोगाः पुनर् न वा विशदवाददोषमलिनो ऽस्यहो विस्मयः ॥ ८॥ परस्परविलक्षणाश्च न च नामरूपादयः क्रियापि च न तानतीत्य न च ते क्रियैकान्ततः । निरोधगतयस्त एव न च विक्रियानिश्चया निमीलितविलोचनं जगदिदं त्वयोन्मीलितम् ॥९॥ न कश्चिदपि जायते न च परत्वमापद्यते प्रतिक्षणनिरोधजन्मनियताश्च सर्वाः प्रजाः । य एव च समुद्भवः सविलयः प्रतिस्वं च तौ तवापरमिदं मनस्वनलसैनिखातं वचः ॥ १० ॥ पृथङ् न भवहेतुरस्ति न च भोक्तुरन्यो भवः प्रसूतिरपि जायमानमतितो ऽस्ति नान्या न च । स्थितिर्गमनमुन्नतिर्व्यसनमिष्टयो बुद्धयस् तथेत्यनवबद्धपूर्वमपरैः प्रबद्धं त्वया ॥ ११ ॥ स्वभावनियतस्त्वया जिन न कश्चिदात्मोदितस् त्वमेव च परं ललाम परमार्थतत्त्वार्थिनाम् । असंभवमनाशमेकममितक्षयस्थानिनं यथैनमवदत्तथैव परमात्मतास्यात्मनः ॥ १२ ॥ पृथङ न चयनादयो न च परस्परैकात्मका न बुद्धिरपि तानतीत्य न च तद्गता बुद्धयः । अतीत्य न च चेतनास्ति सुखदुःखमोहोदया न युक्तमिव नाम ते जिन विगाहधीरं वचः ॥ १३ ।। क्षमैव पुरुषं रुषंश्च न विजातिरभ्युन्नतिर् न नाम मतिमार्दवं न निकृतिर्न नामार्जवम् । ऋतं वितथमेव गुप्तिरथवा तपः किल्बिषं विमुक्तिमपि बन्धमात्थ न च तत्तथा नान्यथा ॥ १४ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org