Book Title: Namaskar Swadhyay Sanskrit Vibhag
Author(s): Dhurandharvijay, Jambuvijay, Tattvanandvijay
Publisher: Jain Sahitya Vikas Mandal
View full book text ________________ विभाग] शस्तव 303 लोकोत्तमो निष्प्रतिमस्त्वमेव, त्वं शाश्वतं मङ्गलमप्यधीश ! / त्वामेकमर्हन् ! शरणं प्रपद्ये, सिद्धर्षिसद्धर्ममयस्त्वमेव // 1 // त्वं मे माता पिता नेता, देवो धर्मो गुरुः परः। प्राणाः स्वर्गोऽपवर्गश्च, सचं तत्वं गतिर्मतिः // 2 // जिनो दाता जिनो भोक्ता, जिनः सर्वमिदं जगत् / जिनो जयति सर्वत्र, यो जिनः सोऽहमेव च // 3 // यत्किश्चित् कुर्महे देव !, सदा सुकृतदुष्कृतम् / तन्मे निजपदस्थस्य, हुं क्षः क्षपय त्वं जिन 1 // 4 // गुह्यातिगुह्यगोप्ता त्वं, गृहाणास्मत्कृतं जपम् / सिद्धिः श्रयति मां येन, त्वत्प्रसादाचयि स्थितम् // 5 // * इति श्रीवर्धमानजिननाममन्त्रस्तोत्रम् / प्रतिष्ठायां शान्तिकविधौ पठितं महासुखाय स्यात् / इति शक्रस्तवः / 1 इतीमं पूर्वोक्तमिन्द्रस्तवैकादशमन्त्रराजोपनिषद्गर्भ अष्टमहासिद्धिप्रदं सर्वपापनिवारणं सर्वपुण्यकारणं सर्वदोषहरं सर्वगुणाकरं महाप्रभाव अनेकसम्यग्दृष्टिभद्रकदेवताशतसहस्रशुश्रूषितं भवान्तरकृतासंख्यपुण्यप्राप्यं सम्यग् जपतां पठतां गुणयतां शृण्वतां समनुप्रेक्षमाणानां, 15 भव्यजीवानां चराचरेऽपि (जीवलोके) सद्वस्तु तन्नास्ति यत् करतलप्रणयि न भवतीति / किं च . 2 इतीमं० पूर्वोक्तमिन्द्रस्तवैकादशमन्त्रराजोपनिषद्गर्भ इत्यादि यावत्सम्यग्समनुप्रेक्षमाणानां भव्यजीवानां भवनपतिव्यन्तर-ज्योतिष्क वैमानिकवासिनो देवाः सदा प्रसीदन्ति / व्याधयो विलीयन्ते / 3 इतीमं० भव्यजीवानां पृथिव्यप्तेजोवायुगगनानि भवन्त्यनुकूलानि / 20 4 इतीमं० भव्यजीवानां सर्वसंपदा मूलं जायते जिनानुरागः। 5 इतीमं० भव्यजीवानां साधवः सौमनस्येनानुग्रहपरा जायन्ते / 6. इतीमं० भव्यजीवानां खलाः क्षीयन्ते / 7 इतीमं० भव्यजीवानां जल-स्थल-गगनचराः क्रूरजन्तवोऽपि मैत्रीमया जायन्ते / 8 इतीमं० भव्यजीवानां अधमवस्तून्यपि उत्तमवस्तुभावं प्रपद्यन्ते / 9 इतीमं० भव्यजीवानां धर्मार्थकामा गुणाभिरामा जायन्ते / 1 क्षः अ क्षपणमाटेना मंत्राक्षरो होय. एम लागे छे। .
Loading... Page Navigation 1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398