________________ विभाग] शस्तव 303 लोकोत्तमो निष्प्रतिमस्त्वमेव, त्वं शाश्वतं मङ्गलमप्यधीश ! / त्वामेकमर्हन् ! शरणं प्रपद्ये, सिद्धर्षिसद्धर्ममयस्त्वमेव // 1 // त्वं मे माता पिता नेता, देवो धर्मो गुरुः परः। प्राणाः स्वर्गोऽपवर्गश्च, सचं तत्वं गतिर्मतिः // 2 // जिनो दाता जिनो भोक्ता, जिनः सर्वमिदं जगत् / जिनो जयति सर्वत्र, यो जिनः सोऽहमेव च // 3 // यत्किश्चित् कुर्महे देव !, सदा सुकृतदुष्कृतम् / तन्मे निजपदस्थस्य, हुं क्षः क्षपय त्वं जिन 1 // 4 // गुह्यातिगुह्यगोप्ता त्वं, गृहाणास्मत्कृतं जपम् / सिद्धिः श्रयति मां येन, त्वत्प्रसादाचयि स्थितम् // 5 // * इति श्रीवर्धमानजिननाममन्त्रस्तोत्रम् / प्रतिष्ठायां शान्तिकविधौ पठितं महासुखाय स्यात् / इति शक्रस्तवः / 1 इतीमं पूर्वोक्तमिन्द्रस्तवैकादशमन्त्रराजोपनिषद्गर्भ अष्टमहासिद्धिप्रदं सर्वपापनिवारणं सर्वपुण्यकारणं सर्वदोषहरं सर्वगुणाकरं महाप्रभाव अनेकसम्यग्दृष्टिभद्रकदेवताशतसहस्रशुश्रूषितं भवान्तरकृतासंख्यपुण्यप्राप्यं सम्यग् जपतां पठतां गुणयतां शृण्वतां समनुप्रेक्षमाणानां, 15 भव्यजीवानां चराचरेऽपि (जीवलोके) सद्वस्तु तन्नास्ति यत् करतलप्रणयि न भवतीति / किं च . 2 इतीमं० पूर्वोक्तमिन्द्रस्तवैकादशमन्त्रराजोपनिषद्गर्भ इत्यादि यावत्सम्यग्समनुप्रेक्षमाणानां भव्यजीवानां भवनपतिव्यन्तर-ज्योतिष्क वैमानिकवासिनो देवाः सदा प्रसीदन्ति / व्याधयो विलीयन्ते / 3 इतीमं० भव्यजीवानां पृथिव्यप्तेजोवायुगगनानि भवन्त्यनुकूलानि / 20 4 इतीमं० भव्यजीवानां सर्वसंपदा मूलं जायते जिनानुरागः। 5 इतीमं० भव्यजीवानां साधवः सौमनस्येनानुग्रहपरा जायन्ते / 6. इतीमं० भव्यजीवानां खलाः क्षीयन्ते / 7 इतीमं० भव्यजीवानां जल-स्थल-गगनचराः क्रूरजन्तवोऽपि मैत्रीमया जायन्ते / 8 इतीमं० भव्यजीवानां अधमवस्तून्यपि उत्तमवस्तुभावं प्रपद्यन्ते / 9 इतीमं० भव्यजीवानां धर्मार्थकामा गुणाभिरामा जायन्ते / 1 क्षः अ क्षपणमाटेना मंत्राक्षरो होय. एम लागे छे। .