Book Title: Namaskar Swadhyay Sanskrit Vibhag
Author(s): Dhurandharvijay, Jambuvijay, Tattvanandvijay
Publisher: Jain Sahitya Vikas Mandal

Previous | Next

Page 390
________________ [82-37] अज्ञातकर्तृकः -- श्रीपञ्चपरमेष्ठिस्तवः भक्तिव्यक्तिपुरस्सरं प्रणिदधे विस्तीर्णमोहोदधेनिस्तीर्णान् परमेष्ठिनः कृततमत्रासान् प्रकाशात्मनः। पञ्चाऽप्युश्चतरान् क्षमाधरवरान् निस्तुल्यकल्याणकान् , प्रीतिस्फीतिनिबंधनं सुमनसां तन्मन्दरागोत्तमान् // 1 // अर्हन्तः स्वपरार्थसम्पदुदयप्रादुर्भववैभवाः, स्तोतव्या जगतां गतान्धतमसः प्राणिप्रमाणीकृताः। सन्मार्गे प्रथमप्रधानवचनव्यालुप्तमिथ्यापथा, भूयांसुर्भविनां भवाधिशमना देवाधिदेवाः श्रिये // 2 // आहुर्यान् सुकृतस्य सर्वकृतिनामैकान्तिकात्यन्तिकं, सिद्धानन्तचतुष्टयं फलमपव्याधिच्छिताधिध्रुवं / xxxxविशेषशेखरसमं व्याबाधया बाधितं', सिद्धाः सिद्धिपदं सतां विदधतां ते संगतं सन्ततम् // 3 // आचाराचरणं सतां वितरणं सत्शेमुषीसम्पदां, . दोषाणां विनिवर्तनं गुणततेनिर्वर्तनं निःस्पृहं। तीर्थाधीशकृतपृथुप्रवचनप्रोगासनं प्रत्यहं, कुर्वाणाः स्मरबाणभङ्गनिपुणास्ते सूरिसूराः श्रिये // 4 // सम्यग्दर्शनबोधसंयमसमाधानप्रधानप्रभाभूयः शिष्यसमूहसंगतमतिव्युत्पचिसविक्रमाः। श्रीमद्वाचकपुंगवाः शुभतरोदाः कुतर्कातिगाः, सूत्रार्थोभयवेदिनः प्रतिदिनं पुष्णन्तु पुण्योदयम् // 5 // . शानाधैः शिवसाधकाः प्रतिपदं व्यापादका विद्विषां, सम्पन्नाः श्रुतसम्पदा प्रतिपदा पापापदानन्ददाः। गङ्गातुङ्गतरङ्गसंगतगुणश्रेणिमणिसिन्धवः, सान्निध्यं शुभसंयमाध्वनि सदा तन्वन्तु वः साधवः॥६॥ पश्चाचाररमाविलासरसिकाः पञ्चप्रमादद्विषः, पञ्चज्ञानमयाः प्रपञ्चविमुखाः पञ्चव्रताप्तोदयाः। दृप्यत् पञ्चहषीककुञ्जरघटा पञ्चत्वपश्चाननाः, पञ्च श्रीपरमेष्ठिनः प्रणमतां पुष्णन्तु नःसंपदम् // 7 // 1 भा पाद संपूर्ण मन्यु नथी।

Loading...

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398