Book Title: Mulachar Satik Part 02
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti

View full book text
Previous | Next

Page 293
________________ २८८ मूलाचारे मनुष्यगतावल्प वहुत्वमाह, अंतरदवे मणुया थोवा मणुयेसु होंति णायव्वा । कुरुवसु दस माया संखेज्जगुणा तहा होंति ॥ १७५ ॥ तत्तो संखेज्जगुणा मणुया हरिरम्मएस वस्सेसु । तत्तो संखिज्जगुणा हेमवदहरिण्णवस्साय ॥ १७६ ॥ भररावदमणुया संखेज्जगुणा हवंति खलु तत्तो । तत्तो संखिज्जगुणा नियमादु विदेहगा मणुया ॥ १७७ ॥ सम्मुच्छिमाय मणुया होंति असंखिज्जगुणा य तत्तो दु ते चैव अपज्जत्ता सेसा पज्जत्तया सव्वे ॥ १७८ ॥ अंतर्द्वषेषु मनुजाः स्तोका मनुजेषु भवंति ज्ञातव्या : । कुरुषु दशसु मनुजा: संख्येयगुणाः तथा भवंति ॥ १७५ ॥ ततः संख्येयगुणा मनुजा हरिरम्यकेषु वर्षेषु । ततः संख्येगुणा हैमवत हैरण्यवर्षयोः ॥ १७६ ॥ भरतैरावतमनुजाः संख्येयगुणा भवंति खलु ततः । ततः संख्येयगुणाः नियमात् विदेहका मनुजाः ॥ १७७ ॥ संमूहिमाश्च मनुजा भवंति असंख्येयगुणाश्च ततस्तु । एते एव अपर्याप्ताः शेषाः पर्याप्ताः सर्वे ॥ १७८ ॥ टीका - मनुष्यगतौ सर्वे स्तोकाः संख्याताः सर्वांतद्वीपेषु मनुष्याः ऊ । तेभ्यश्च दशसु कुरुषूपभोगभूमिषु मनुष्याः संख्यातगुणा भवति ज्ञातव्याः । ऊऊ । तेभ्यश्च दशसु भोगभूमिषु हरिरम्यकवर्षेषु मनुष्याः संख्यातगुणाः । ऊऊऊ । तेभ्यश्च दशसु जघन्य भोगभूमिषु हैमवत हैरण्यवतसंज्ञकासु मनुष्याः संख्यातगुणाः । ऊऊऊऊ । तेभ्यश्व पंचसु भरतेषु पंचस्वैरावतेषु च मनुष्याः संख्यातगुणाः । ऊऊऊऊऊ। तेभ्यश्च निश्वयेन मनुष्या विदेहेषु संख्यातगुणा भवंति । ऊ ऊ ऊ ऊ ऊ ।

Loading...

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338