Book Title: Mulachar Satik Part 02
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti

View full book text
Previous | Next

Page 300
________________ पर्याप्त्यधिकारः। २९५ तत्परि समंतादयत इति मनःपर्ययः । त्रिकालगोचरानंतपर्यायाणां अववोधः केवलं सर्वथा शुद्धः । ज्ञानशब्दः प्रत्येकमभिसंबध्यते । अभिनिवोधिकज्ञानं, श्रुतज्ञानं, अवधिज्ञानं, मनःपर्ययज्ञानं, केवलज्ञानं चेति । आवरणशब्दोऽपि प्रत्येकमंभिसंवध्यते; आभिनिवोधिकज्ञानावरणं, श्रुतज्ञानावरणं, अवधिज्ञानावरणं, मनःपर्ययज्ञानावरणं, केवलज्ञानावरणं चेति । एतेषां सर्वभेदानामावरणं ज्ञातव्यं । अभिनिबोधिकं ज्ञानमवग्रहहावायधारणामेदेन चतुर्विधं, विषयविषयिसन्निपातानंतरमवग्रहणमवग्रहः, सोऽप्यर्थव्यंजनावग्रहभेदेन द्विविधः, प्राप्तार्थग्रहणमवग्रहः यथा चक्षुरिन्द्रियेण रूपग्रहणं प्राप्तार्थग्रहणं व्यंजनावग्रहो यथा स्पर्शनेंद्रियेण स्पर्शग्रहणं । गृहीतस्यार्थस्य विशेषाकांक्षणमीहा योऽवग्रहेण गृहीतोऽर्थस्तस्य विशेषाकांक्षणं भवितव्यता प्रत्ययं यथा कंचित् दृष्ट्वा किमेषो भव्य उत अभव्यः भव्येन भवितव्यमिति विशेषाकांक्षणमीहा । ईहितस्यार्थस्य भवितव्यतारूपस्य संदेहापोहनमवायः भव्य एवायं नाभव्यः भव्यत्वाविनामाविसम्यग्दर्शनज्ञानचरणानामुपलंभात् । निर्णीतस्यार्थस्य कालांतरेष्वविस्मृतिर्धारणा यस्याज्ज्ञानात्कालांतरेऽप्यविस्मरणहेतुभूतो जीवे संस्कार उत्पद्यते तज्ज्ञानं धारणा । न चैतेषांमवग्रहादीनां चतुर्णा सर्वत्र क्रमेणैवोत्पत्तिस्तथानुपलंभात् ततः क्वचिदवग्रह एव, क्वचिदवग्रहो धारणा च, क्वचिदवग्रह ईहा च, क्वचिदवग्रहहावायधारणा इति । तत्र बहुबहुविधक्षिप्रानिःसृतानुक्तध्रुवसेतरभेदेनैकैको द्वादशविधः । तत्र बहूनामेकवारेण ग्रहणं बढवग्रहः युगपत्पंचांगुलिग्रहणवत् । बहुप्रकाराणां हस्त्यश्वगोमहिष्यादानां नानाजातीनां ग्रहणं बहुविधावग्रहः । एकजातिग्रहणमेकविधावग्रहः । आशु ग्रहणं क्षिप्रावग्रहः । चिरकालग्रहणमक्षिप्रावग्रहः । अभिमुखार्थग्रहणं निःसृतावग्रहः । अनभिमुखार्थग्रहणमनिःसृतावग्रहः । अथवोपमानोपमेयभावन ग्रहणं निःसृतावग्रहस्तद्विपरीतोऽन्यथा, यथा कमलदलनेत्रात्तद्विपरीतो वा । नियमितगुणविशिष्टार्थग्रहणमुक्तावग्रहः यथा चक्षुरिंद्रियेण धवलग्रहणं । अनियमितगुणविशिष्टद्रव्य ग्रहणमनुक्तावग्रहः यथा

Loading...

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338