Book Title: Mulachar Satik Part 02
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti

View full book text
Previous | Next

Page 322
________________ पर्याप्त्यधिकारः । ३१७ कीर्त्यच्चगोत्रयोरष्टौ मुहूर्ताः क्रोधसंज्वलनस्य द्वौ मासौ मानसंज्वलनस्यैकमासः मायासंज्वलनस्यार्द्धमासः पुरुषवेदस्याष्टौ संवत्सराः निद्रानिद्राप्रचलाप्रचलास्त्यानगृद्धिनिद्राप्रचलाऽसातवेदनीयानां सागरोपमस्य त्रयः सप्तभागा: पल्योपमासंख्यातभागहीनाः । मिथ्यात्वस्य सागरोपमस्य सप्तदशभागाः पल्योपमासंख्यातभागहीना अनंतानुवंध्यप्रत्याख्यानप्रत्याख्यानानां सागरोपमस्य चत्वारः सप्तभागाः पल्योपमासंख्यातभागहीना अष्टानां नोकषायाणां सागरोपमस्य द्वौ सप्तभागौ पल्योपमासंख्यातभागहीनौ नरकदेवायंषादशवर्षसहस्राणि तिर्यजनुष्यायुषोरंतर्मुहूर्तः नरकगतिवैक्रियिकशरीरांगोपांगदेवगतिप्रायोग्यानुपूर्व्याणां सागरोपमस्य द्वौ सप्तभागौ पल्योपमासंख्यातभागहीनौ आहाराहारांगोपांगतीर्थकराणां सागरोपमाणां कोटीकोटयोंऽतः कोटीकोटी शेषाणां सागरोपमस्य द्वौ सप्तभागौ पल्योपमासंख्यातभागहीनौ । सर्वत्र जघन्या स्थितिरिति संबंधनीया । सर्वत्र चांतर्मुहूर्त्तमावाघा आवाधो नाम कर्मस्थितिः कर्मनिषेधकः । सर्वोऽयं जघन्यस्थितिबंधः सामान्यापेक्षया संज्ञिपंचेंद्रियस्यैकेंद्रियद्दींद्रियत्रीन्द्रियचतुरिंद्रियासंज्ञिपंचेंद्रियाणां सर्वकर्मणां जघन्यस्थितिबंधः य एवोत्कृष्ट उक्तः स एव पल्योपमासंख्यातभागहीनो द्रष्टव्य इति ॥ २०२ ॥ अनुभागबंधं निरूपयन्नाह;कम्माणं जो दु रसो अज्झवसाणजणिद सुह असुहो वा बंधो सो अणुभागो पदेसबंधो इमो होइ ॥ २०३ ॥ कर्मणां यस्तु रस अध्यवसानजनितः शुभोऽशुभो वा । बंधः सः अनुभागः प्रदेशबंधः अयं भवति ॥ २०३॥ टीका-कर्मणां ज्ञानावरणादीनां यस्तु रसः सोऽनुभवोऽध्यवसानैः परिणामैर्जनितः क्रोधमानमायालोभतीवादिपरिणामभावतःशुभः सुखदः अशुभः असुखदः वा विकल्पार्थः सोऽनुभागबंधः । यथा अजागोमाहिध्यादीनांक्षीणतीबमंदादिभावेन रसविशेषस्तथा कर्मपुद्गलानां तीवादिभावेन स्वगतसाम--

Loading...

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338