Book Title: Mulachar Satik Part 02
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti

View full book text
Previous | Next

Page 323
________________ मूलाचारे ३१८ mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmar र्थ्यविशेषः शुभोऽशुभो वा यः सोऽनुभागवंधः । शुभपरिणामानां प्रकर्षभावाच्छुभप्रकृतीनांप्रकृष्टोऽनुभवोऽशुभप्रकृतीनां निकृष्टः अशुभपरिणामानां प्रकृष्टभावादशुभप्रकृतीनां प्रकृष्टोऽनुभवः शुभप्रकृतीनां निकृष्टः । स एवं प्रकृतिवशादुपपन्नो रसविशेषः द्विधा प्रवर्त्तते स्वमुखेन परमुखेन चैवं सर्वासां मूलप्रकृतीनां स्वमुखेनैवानुभव: उत्तरप्रकृतीनां तुल्यजातीनां परमुखे नापि आयुर्दर्शनचारित्रमोहवानां, न हि नरकायुमुखेन तिर्यगायुर्मनुष्यायुर्वा विपच्यते नापि दर्शनमोहश्चारित्रमोहमुखेन चारित्रमोहो वा दर्शनमो हमुखेनेति । तथा देशघातिसर्वघातिभेदेनानुभागो द्विविधः, देशं घातयतीति देशघाती सर्व घातयतीति सर्वघाती। निद्रानिद्राप्रचलाप्रचलास्त्यानगृद्धिप्रचलानिद्राः चतुः संज्वलनवा द्वादश कषाया मिथ्यात्वादीनां विंशतिप्रकृतीनामनुभागः सर्वघाती ज्ञानादिगुणं सर्व घातयतीति वनदाह इव । मतिज्ञानश्रुतज्ञानावधिज्ञानमनःपर्ययज्ञानावरणपंचांतरायसंज्वलनक्रोधमानमायालोभनवनोकषायाणामुत्कृष्टानुभागबंधः सर्वघाती वा जघन्यो देशघाती सातासातचतुरायुः सर्वनामप्रकृत्युच्चैर्नीचर्गोत्राणामुत्कृष्टाद्यनुभागवंधः घातिनां प्रतिभागो देशघाती घातिविनाशे स्वकार्यकरणसामर्थ्याभावात् एता अघातिप्रकृतयः पुण्यपापसंज्ञाः शेषाः पुनः पूर्वोक्ता घातिसंज्ञाःपापा भवंतीति । अशुभप्रकृतीनां चत्वारि स्थानानि निवकांजीरविषकालकुटानीति, शुभप्रकृतीनां च चत्वारि स्थानानि गुड़खंडशर्करामृतानीति । मोहनीयांतरायवर्जितानां षण्णां कर्मणामुत्कृष्टानुभागवंधः चतुः स्थानिको जघन्यानुभागवंधो विस्थानिकः शेषः द्वित्रिचतुः स्थानिकः, मोहनीयांतराययोरुत्कृटानुभागवंधश्चतुः स्थानिको जघन्यानुभागवंध एकस्थानिकः शेषा एकदित्रिचतुः स्थानिकाः । चतुर्ज्ञानावरणत्रिदर्शनावरणपुंवेदचतुःसंज्वलनपंचांतरायाणां सप्तदशप्रकृतीनामुत्कृष्टानुभागवंधश्चतुःस्थानिको जघन्यानुभागबंध एकस्थानिकः । शेषाः सर्वेऽपि केवलज्ञानावरणसातासातमिथ्यात्वद्वादशकषायाप्टनोकषायचतुरायुःसर्वनामप्रकृत्युच्चैर्नीचेगौत्राणामुत्कृष्टानुभागवं

Loading...

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338