Book Title: Mulachar Satik Part 02
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti

View full book text
Previous | Next

Page 326
________________ पर्याप्यधिकारः। ३२१ मिथ्यात्वसम्यज्निथ्यात्वानीत्येताः सप्त प्रकृतीः असंयतसम्यग्दृष्टिसंयतासंयतप्रमत्ताप्रमत्तादीनां मध्ये कोऽप्येक उपशमयति तत्राधःप्रकृवृत्यपूर्वकरणानिकरणानिकृत्वा अनिवृत्तिकरणकालस्य संख्येयेषु भागेषु गतेषु विशेषघातेन हन्यमानमनंतानुबंधिचतुष्कं स्थितिसत्कर्मोपशमं याति स्वस्वरूपं परित्यज्यान्यस्य प्रकृतिस्वरूपेण स्थानमनंतानुवंधिनामुपशमः पुनरधःप्रवृत्त्यपूर्वानिवृत्तिकरणानि कृत्वा अनिवृत्तिकरणकालस्य संख्येयेषु भागेषु गतेषु दर्शनमोहत्रिकस्योदयाभाव उपशमस्तेषामुपशांतानामप्युत्कर्षापकर्षपरप्रकृतिसंक्रमणानामस्तित्वं यत इति । अपूर्वकरणेनैकमपि कर्मोपशाम्यति किंवपूर्वकरणः प्रतिसमयमनंतगुणविशुद्ध्या वर्द्धमानः अंतर्मुहूर्तेनैकैकस्थितिखंडकं पातयन् संख्यातशतसहस्राणि स्थितिखंडकानि पातयति तावन्मात्राणि च स्थितिबंधापसरणानि करोति एकैकस्थितिबंधाभ्यतरे संख्यातसहस्राण्यनुभागखंडकानि पातयति प्रतिसमयमसंख्यातगुणश्रेण्या प्रदेशनिर्जरां करोति अप्रशस्तकौशान्न वनाति तेषां प्रदेशग्रमसंख्यातगुणश्रेण्या अन्यासु प्रकृतिषु वध्यमानस्ततिस्तिपरि संक्रामयति । पुनरपूर्वकरणमतिक्रम्यानिवृत्तिकरणं प्रविश्यांतर्मुहूर्त्तमात्रमनेन विधानेन स्थित्वा द्वादशानां कषायाणां नवानां नोकषायाणामंतरमंतर्मुहूर्तेन करोति।अंतरे क्षते प्रथमसमयादुपरि अंतर्मुहूर्त गत्वा असंख्येयगुणश्रेण्या नपुसंकवेदमुपशमयति ततोऽतर्मुहूर्त गत्वा नपुंसकवेदोपशमनविधिना स्त्रीवेदमुपशमयति ततोऽतर्मुहूर्तेन तेनैव विधिना षण्णां कषायाणां पुरुषवेदं चिरंतनसत्कर्मणा सह युगपदुपशमयति तत ऊर्ध्व समयोने द्वे आवल्यौ गावा पुंवेदनवकबंधमुपशमयति ततोऽतर्मुहूर्त गत्वा अप्रत्याख्यानप्रत्याख्यानसंज्ञको क्रोधौ क्रोधसंज्वलन चिरंतनसत्कर्मणा सह युगपदुपशमयति ततः समयोने द्वे आवल्यौ गत्वा क्रोधसंज्वलननवकवंधमुपशमयति ततोऽतर्मुहूर्त गत्वा अप्रत्याख्यान प्रत्याख्यानमानौअसंख्यातगुणश्रेण्या मानसंज्वलनं चिरंतनसत्कर्मणा सह युगपदुपशमयति, ततः समयोने द्वे आवल्यौ गत्वा मानसंज्वलननवकबंधमुपशमयति ततः प्रतिसमयमसंख्या २१

Loading...

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338