Book Title: Mulachar Satik Part 02
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti

View full book text
Previous | Next

Page 310
________________ पर्याप्तत्यधिकारः i कत्वापादनं भवति तत्संघातनाम । यदि संघातनामकर्म न स्यात्तिलमोदक इव जीवशरीरं स्यात् । तञ्च्चौदारिकशरीरसंघातादिभेदेन पंचविधं । यदुदयादौदारिकादिशरीराकृतेनिर्वृतिर्भवति तत्संस्थाननाम, येषां कर्मस्कंधानामुदयेन जातिकर्मोदयपरतंत्रेण शरीरस्य संस्थानं क्रियते तच्छरीरसंस्थानं । यदि तन्न स्याज्जीवशरीरम संस्थानं स्यात् । तच्च षोढा विभज्यते - समचतुरस्रसंस्थाननाम, न्यग्रोधपरिमंडल संस्थाननाम, सातिशरीरसंस्थाननाम, वामनसंस्थाननाम, कुब्जसंस्थाननाम, हुंडकसंस्थाननाम । समचतुरस्रं समचतुरस्रमिव विभक्तमित्यर्थः । न्यग्रोधो वृक्षस्तस्य परिमंडलमिव परिमंडलं यस्य तन्न्योग्रोधपरिमडलं नाभेरूर्ध्वं सर्वावयवपरमाणु बहुत्वं न्यग्रोधपरिमंडलमिव न्यग्रोधपरिमंडलशरीरसंस्थानमायतवृत्तमित्यर्थः । साति वाल्मीकं शाल्मलिर्वा तस्य संस्थानमिव संस्थानं यस्य तत्सातिशरीरसंस्थानं नाभेरधोवयवानां विशालत्वमूर्ध्न सौक्ष्म्यं । कुब्जस्य शरीरं कुब्जशरीरं तस्य संस्थानमिव संस्थानं यस्य तत्कुब्जशरीरसंस्थानं यस्योदयेन शाखानां दीर्घत्वं भवति तत्कुब्ज शरीरसंस्थाननाम । वामनस्य शरीरं वामनशरीरं तस्य संस्थानं वामनशरीरसंस्थान नाम यस्योदयात् शाखानां ह्रस्वत्वं कायस्य च दीर्घत्वं भवति । विषमपाषाणभृताद्रिरिव विषमं हुंडं यस्य शरीरं तस्य संस्थानमिव संस्थानं यस्य तद्धुंडकशरीरसंस्थानं यस्योदयेन पूर्वोक्तपंच संस्थानेभ्योऽन्यवीभत्सं संस्थानं भवति । अथ बंधन संघातसंस्थानेषु को भेद इति चेन्नैष दोषो यस्य कर्मण उदयेनौदारिकशरीरपरमाणवोऽन्योन्यं वंधमागच्छंति तदौदारिकशरीरवंधनं नाम । यस्य कर्मण उदयेनौदारिकशरीरस्कंधानां शररिभावमुपगतानां बंधननामकर्मोदयेनैकवं घनवद्वानामौदर्यं भवति तदौदारिकशरीरसंघांत नाम । यस्य च कर्मण उदयेन शरीरस्कंधानामाकृतिर्भवति तत्संस्थानमिति महान्भेदो यत । एवं सर्वत्र द्रष्टव्यमिति ॥ १९३॥ २० ३०५

Loading...

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338