Book Title: Mulachar Satik Part 02
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti

View full book text
Previous | Next

Page 309
________________ ३०४ मूलाचारे उदयं गच्छंति स भावो यस्य पुद्गलस्कंधस्य मिथ्यात्वादिकारणैः प्राप्तकर्मण उदयाद्भवति तस्या गतिरिति संज्ञा । सा चतुर्विधा-नरकगतिः, तिर्यग्गतिः, मनुष्यगतिः, देवगतिश्चेति । येषां कर्मस्कंधानामुदयादात्मना नारकादिभवस्तेषां नरकगत्यादयः संज्ञाश्चतस्रो भवंति नरकादिगतिषु । तदव्यभिचारिणा सादृश्यनेनैकीकृतात्मा जातिर्जीवानां सदृशःपरिणामः यदि जातिनामकर्म न स्यात्तदा मत्कुणा मत्कुणैवृश्चिका वृश्चिकै/हयो बीहिभिः समाना न जायेरन्, दृश्यते च सादृश्यं तस्माद्यतः कर्मस्कंधाच्च याति सादृश्यं तस्य जातिरिति संज्ञा । सा च पंचविधा, एकेंद्रियद्वीन्द्रियत्रीन्द्रियचतुरािंद्रियपंचेंद्रियजातिभेदेन । यदुदयादात्मा एकेंद्रियः स्यात्तदेकेंद्रियजातिनामकर्म एवं शेषेष्वपि योज्यं । यदुदयादात्मनः शरीरनिर्वृतिस्तच्छरीरनाम, यस्य कर्मस्कंधस्योदयेनाहारतेज:कार्माणवर्गणापुद्गलस्कंधाः शरीरयोग्यपरिणामैः परिणता जीवेन संबध्यते तस्य शरीरमिति संज्ञा । यदि शरीरनामकर्म न स्यादात्मा विमुक्त: स्यात् । तच्छरीरं पंचविधं, औदारिकवैक्रियिकाहारकतैजसकार्माणशरीरभेदेन । यदुदयादाहारवर्गत णागतपुद्गलस्कंधा जीवगृहीता रसरुधिरमांसास्थिमज्जाशुक्रस्वभावौदारिकशरीरं भवंति तदौदारिकशरीरनाम, एवं सर्वत्र यदुदयादाहारवर्गणापुद्गलस्कंधाः सर्वशुभावयवाहारशरीरस्वरूपेण परिणमंति तदाहारकशरीरं नामकम, तथा यदुदयात्तैजसवर्गणापुद्गलस्कंधा निःसरणानिःसरणप्रकामप्राप्तसमस्तप्रत्येकस्वरूपेण भवंति तत्तैजसशरीरं नाम, तथा यदुदयादाहारवर्गणागतपद्लस्कंधा अणिमादिगुणोपलक्षितास्तद्वौक्रियकं शरीरं, यदुदयात्कूठमांडफलवंताकफलवृतवत्सर्वकर्माश्रयभूतं तत्कार्माणाशरीरं । शरीरार्थागतपुद्गलस्कंधानां जीवसंबंधानां यैः युगलस्कंधैः प्राप्तोदयैरन्योन्यसंश्लेषणसंबंधो भवति तच्छरीरबंधनं नामकर्म । यदि शरीरबंधननामकर्म न स्याहालकाकृतपुरुषशरीरमिव शरीरं स्यात् तदौदारिकशरीरबंधनादिभेदेन पंचविधं । यदुदयादौदारिक शरीराणां विवरविरहितान्योन्यप्रवेशानुप्रवेशेन

Loading...

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338