Book Title: Mulachar Satik Part 02
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti
View full book text ________________
३०६
मुलाचारे
तथा;संघडणंगोवंगं वण्णरसगंधफासमणुपुब्वी । अगुरुलहुगुवघादं परघादमुस्सास णामं च ॥ १९४॥
संहमनमंगोपांगं वर्णरसगंधस्पर्शा आनुपूर्वी ।
अगुरुलधूपघाताः परघात उच्छ्रास नाम च ॥ १९४ ॥
टीका - यस्योदयादस्थिसंधिबंधविशेषो भवति तत्संहननं नाम, एतस्याभावे शरीरसंहननं न भवेत् । तत् षड्धिं; वज्रर्षभनाराच संहननं, वज्रनाराच संहननं, नाराचसंहननं, अर्द्धनाराचसंहननं, कीलकसंहननं, असंप्राप्तास्पाटिका संहननं चेति । अस्थिसंचयं ऋषभवेष्टनं वज्रवद भेद्यत्वादृषभः वज्रश्च नाराचश्च वज्रनाराचौ तौ द्वावपि यस्य शरीरसंहननं तद्वर्षभनाराच संहननं यस्य कर्मण उदयेन वज्रास्थीनि वज्रवेष्टनेन वेष्टितानि वज्रनाराचेन च कीलितानि भवंति । एष एवास्थिवंघो ऋषभरहितो यस्योदयेन भवति तत् द्वितीयं । यस्य कर्मण उदयेन वज्रविशेषणरहितोऽस्थिबंधो नाराचकीलितो भवति तत्तृतीयं । यस्य कर्मण उदयेनास्थिसंचयो नाराचेनार्द्धकीलितो तच्चतुर्थं । यस्य कर्मण उदयेन वज्रास्थीनि वज्रवेष्टनेन वेष्टितानि वज्रनाराचेनैव कीलितानि न भवंति तत्पंचमं । यस्य कर्मण उदयेनान्योन्यसंप्राप्तानि असृपाटिका णिराबद्धानि भवंति तत् षष्ठ मिति ॥ यदुदयादंगोपांगविवेकनिष्पत्तिः तदांगोपांग नाम यस्य कर्मण उदयेनानलकवाहूरूदर नितंवोरःपृष्ठ शिरांस्यष्टावंगानि उपांगानि च मूर्द्धकरोटिमस्तकललाटसंधिभुजकर्णनासिकानयनाक्षिकूप हनुकपोलाधरौष्ठसक्तालुजिह्वाग्रीवास्तनचुच्चुकांगुल्यादीनि भवति । तदंगोपांगं त्रिविधमौदारिकशरीरांगोपांगं, वैक्रियकशरीरांगोपांग, आहारकशरीरांगोपांगं चेति । यस्य कर्मण उदयेनौदारिकांगोपांगानि भवति तदौदारिकागोपांगं नामैवमन्यत्रापि योज्यम् ॥ यदुदयाच्छरीरे वर्णनिष्पत्तिस्तद्वर्णनाम स्यात्तदभावे शरी
Loading... Page Navigation 1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338