Book Title: Mulachar Satik Part 02
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti

View full book text
Previous | Next

Page 302
________________ पर्याप्तत्यधिकारः । न प्राोति तावत्सर्वं पदसमासः । तत एकाक्षरे वृद्धिं गते संघातः । संघातः पदैर्यावद्भिर्नरकगतिः प्ररूप्यते तावद्भिर्भवाते तस्मादुत्पन्नं ज्ञानमपि संघातसंज्ञकं, एतस्योपर्येकाक्षरे वृद्धिं गते संघातसमासः । एकाक्षरे प्रविष्टे प्रतिपत्तिः स्यात् यावद्भिः पदैरेकगतींद्रिय काययोगादयः प्ररूप्यते तावद्भिः पदैर्गृहीतः प्रतिपत्तिश्रुतं भवति तस्योपर्येकाक्षरे वृद्धिं गते प्रप्तिपत्तिसमासः यावदनुयोगो न भवति । एकाक्षरे वृद्धिं गतेऽनियोगो भवति चतुर्दशमार्गणाप्ररूपकस्तत एकाक्षरे वृद्धेऽनियोगसमासः । एकाक्षरेण प्राभृतकप्राभृतकं भवति संख्यातानियोगद्वारस्तत एकैकाक्षरवृद्धिक्रमेण यावत्प्राभृतकं न परिपूर्ण तत्सर्वं प्राभृतकसमासस्तत एकाक्षरेण प्राभृतकप्राभृतकं भवति तत एकाक्षरेण वृद्धिर्यावद्वस्तु एकाक्षरेणोनं तत्सर्वं प्राभृतकप्राभृतकसमासः एकाक्षरेण वस्तु विंशतिप्राभृतकैस्तत एकाक्षरवृद्धया नेतव्यं यावत्सर्वमेकाक्षरेणोनं तत्सर्वं वस्तुसमासः । तत एकाक्षरेण पूर्व भवति संख्यातवस्तुभिस्तत एकैकाक्षरवृद्ध्या तावन्नेतव्यं यावल्लोकविंदुसारश्रुतं । एकाक्षरेणोनं तेनाधिकं पूर्वं पूर्वसमासः । एतस्य श्रुतस्यावरणं श्रुतावरणं श्रुतज्ञानभेदावरणस्यापि भेद इति ॥ अवधिज्ञानं देशावधिपरमावधिसर्वावधिभेदेन त्रिविधमेकैकमपि जघन्योत्कृष्टभेदेन द्विविधं । तत्र जघन्यदेशावधिद्रव्यत एकजीवौदारिकशरीरस्य लोकोनभागे हत एकभागं जानाति, क्षेत्रतः घनांगुलस्यासंख्यातभागं जानाति, कालत आवल्या असंख्यातभागं जानाति, भावतो जघन्यद्रव्यपर्यायेषु आवल्य संख्यातभागेषु कृतेषु तत्रैकखंडं जानाति । उत्कृष्टदेशावधिर्द्रव्यतः कार्माणवर्गणाया मनोवर्गणानंतभागेन भागे हते तत्रैकखंडं जानाति क्षेत्रतः संख्यात लोकं जानाति कालतः पल्योपमं जानाति भावतोऽसंख्यात लोकपर्यायान् जानाति । तत्र परमावधिर्जघन्यद्रव्यतो देशायुत्कृष्टद्रव्यस्य मनोवर्गणानंतभागस्यानंतभागेन २९७ भागे हते तत्रैकभागं जानाति क्षेत्रतोऽसंख्यातलोकं जानाति कालत पल्योपमं जानाति भावतोऽसंख्यातलोकपर्यायान् जानाति । उत्कृष्टो द्रव्यतो

Loading...

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338