Book Title: Kiratarjuniyam
Author(s): Vibhar Mahakavi, Virendra Varma
Publisher: Jamuna Pathak Varanasi
View full book text
________________
२४
किरातार्जुनीयम्
वंशस्थ छन्द में हैं । इस छन्द का लक्षण यह है- 'जतौ तु वंशस्थमुदीरितं जरौ ।' इस छन्द में क्रमशः जगण, तगण, जगण और रगण होते हैं । (७) 'वर्णिलिङ्गी' में कुछ लोग 'अश्लीलत्व' दोष की संभावना करते हैं किन्तु जिस प्रकार 'शिवलिङ्ग', 'भगिनी', 'ब्रह्माण्ड ' इत्यादि शब्द विशिष्ट अर्थ के वाचक होने के कारण दुष्ट ( सदोष ) नहीं हैं, उसी प्रकार 'वर्णिलिङ्गी' शब्द के प्रयोग में भी कोई दोष नहीं है ।
घण्टापथः - श्रय इति । आदितः श्रीशब्दप्रयोगाद्वर्णगणादिशुद्धिर्नातीवोपयुज्यते । तदुक्तम् ' देवतावाचकाः शब्दा ये च भद्रादिवाचकाः । ते सर्वे नैव निन्द्याः म्युर्लिपितो गणतोऽपि वा ॥' इति । कुरूणां निवासाः कुरवो जनपदाः । 'तस्य निवासः' इत्यण्प्रत्ययः । जनपदे लुप् । तेषाम् अधिपस्य सम्बन्धिनीम् शेषे षष्ठी । श्रियोः राजलक्ष्म्याः । ' कतृ'कर्मणोः कृति' इति कर्मणि षष्ठी । पाल्यतेऽनयेति पालनी ताम् पालनीं प्रतिष्ठापिकामित्यर्थः । प्रजारागमूलत्वात' सम्पद इति भावः 'करणाधिकरणयोश्च' इति करणे ल्युट् । 'टिड्ढाणत्र - ' इत्यादिना ङीप् । प्रजासु जनेषु विषये । 'प्रजा स्यात् सन्ततौ जने' इत्यमरः ॥ वृत्तिं व्यवहारं वेदितुं ज्ञातुं यं वनेचरं अयुक्त नियुक्तवान् । वर्णः प्रशस्तिरस्यास्तीति वर्णी ब्रह्मचारी । तदुक्तम् — 'स्मरणं कीर्तनं केलिः प्रेक्षणं गुह्यभाषणम् । सङ्कल्पोऽध्यवसायश्च क्रियानिवृत्तिरेव च । एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः । विपरीतं ब्रह्मचर्यमेतदेवाष्टलक्षणम् ॥' एतदष्टविधमैथुनाभावः प्रशस्तिः | 'वर्णाद् ब्रह्मचारिणि ' इतीनिप्रत्ययः । तस्य लिङ्ग चिह्नमस्यास्तीति वर्णिलिङ्गी ब्रह्मचारिवेष चानित्यर्थः । स नियुक्तः । वने चरतीति वनेचरः किरातः । 'भेदाः किरातशत्रर पुलिन्दा म्लेच्छ जातयः' इत्यमरः । 'चरेष्टः ' छूती टप्रत्ययः । ' तत्पुरुषे कृति बहुलम्' इत्यलुक् । विदितं वेदनमस्यास्तीति विदितः परवृत्तान्त ज्ञानवानित्यर्थः । 'अर्श आदिभ्योऽच्' इत्यच् प्रत्ययः । उभयत्रापि 'पीता गाव.', 'भुक्ता ब्राह्मणाः', 'विभक्ता भ्रातरः' इत्यादिवत् साधुत्वम् । न
कर्तरि क्तः । सकर्मकेभ्यस्तस्य विधानाभावात् । अत एव भाष्यकारःअकारो मत्वर्थीयः । विभक्तमेत्रामस्तीति विभक्ताः, पीतमेषामस्तीति पीताः छूती सर्वत्र । अथवोत्तरपदलोपो ऽत्र द्रष्टव्यः । विभक्तधना विभक्ताः, पीतोदकाः
I

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126