Book Title: Katantra Vyakaranam Part 02 Khand 02
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 9
________________ (३) इदं नाविदितं कातन्त्रतत्त्वविदां विपश्चितां यदस्य मुद्रिता सामग्री नागराक्षरेषु प्रायेण नगण्यैवास्ते, ततोऽधिका वङ्गाक्षरेषूपलभ्यते, परं शताधिकवर्षपूर्वं मुद्रितत्वात् सा जीर्णप्रायैव काठिन्येन लभ्यते । विपुला सामग्री व्याकरणस्यास्य वङ्ग-शारदाउत्कल-भोटप्रभृतिलिपिषु निबद्धा तत्र तत्र सुरक्षिताऽवलोक्यते । सम्पादकेन डॉ० द्विवेदेन प्रायेण सर्व एवैते हस्तलेखाः समयेऽधीता आसन् । यथास्थानमंशतस्तेषामुपयोगोऽपि कृतः । प्रकीर्ण-दुरूह -महनीयकार्यस्यास्य समीचीनसम्पादनाय श्रीद्विवेदमहोदयः प्रशंसामर्हति । आशास्यते यद् अधिगतयाथातथ्या गुणैकपक्षपातिनो विद्वांसः कार्यादस्मादवश्यं मुदिताः सन्तो लाभान्विताः स्युरिति । प्रौढपाण्डित्यस्य समीक्षाशक्तेश्च समन्वयो बहुधा अङ्गुलिगणनीयेष्वाचार्येषु समुपलभ्यते, तयोः सङ्गमो ग्रन्थेऽस्मिन् सर्वत्रैव द्रष्टुं शक्यते । एतेन केचन शिक्षका मन्यन्ते यत् कार्यमिदमितिहासनिर्माणकरमस्तीति तस्मादत्र सम्पादकस्य योगदानं निष्ठा श्रमः प्रयत्नश्च स्पष्टमनुमातुं शक्यते । एवंविधं नानाटीका - व्याख्यासंवलितं 'कातन्त्रव्याकरणम्' संस्कृतवाङ्मयस्य निधिभूतं विदुषां करकमलयोः समुपाहरन् नितरां मोमुदीति मे चेतः । अस्य महनीयस्य ग्रन्थस्य सम्पादको डॉ० जानकीप्रसादद्विवेदिमहाशयो नितरां वाङ्मयस्यास्योद्धारकः कामं निरतिशयप्रशंसार्हः । कातन्त्रव्याकरणस्य विश्लेषणे श्रीद्विवेदिना व्यतीतानि बहूनि वर्षाणि । श्रीद्विवेदिमहोदयस्यैतादृशं सारस्वतकार्यं दर्शं दर्शमहं धन्यवादैराशीवदिश्च संयोजयामि श्रीद्विवेदिमहोदयम् । ग्रन्थस्यास्य सौष्ठवपूर्णप्रकाशने सन्नद्धाथ प्रकाशननिदेशकाय डॉ० हरिश्चन्द्रमणित्रिपाठिने, ईक्ष्यशोधकाय डॉ० हरिवंशकुमारपाण्डेयाय, मुद्रकाय 'आनन्द - प्रिंटिंग प्रेस' सञ्चालकाय श्रीदिवाकरत्रिपाठिने च प्रभूतमाशीराशिं वितरन्नहमत्यन्तं हर्षमनुभवामि । अन्ते च ग्रन्थमिमं सान्नपूर्णाय श्रीकाशीविश्वेश्वराय समर्पयन् तं श्रीभवानीजानिं प्रार्थये यद् ग्रन्थोऽयं पाठकानां महते श्रेयसे स्यादिति । वाराणस्याम् आग्रहायणपूर्णिमायाम्, वि० सं० २०५६ (२२-१२-१९९९ ख्रस्ताब्दः ) | राममूर्ति शर्मा राममूर्तिशर्मा कुलपतिः सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 806