Book Title: Katantra Vyakaranam Part 02 Khand 02 Author(s): Jankiprasad Dwivedi Publisher: Sampurnanand Sanskrit Vishva Vidyalay View full book textPage 8
________________ (२) अस्तु, अद्यत्वे जैनाचार्या जैनेन्द्र-शाकटायन-हैमव्याकरणापेक्षया, बौद्धाचार्याश्च चान्द्रव्याकरणापेक्षया कातन्त्रं यदधिकं समाद्रियन्ते तेन कातन्त्रेऽस्ति सन्निहितं शब्दानुशासनान्तरातिशायि किञ्चिद् वैशिष्ट्यवैभवमिति निश्चप्रचं वक्तुं शक्यते । व्याकरणं नाम स्मृतिः, स्मृतयश्च नियतकाला भवन्ति । एतेनाशास्यते यन्नटराजराजमहेश्वरप्रवर्तितपाणिनीयव्याकरणसमनन्तरं स्वामिकात्तिकयप्रवर्तितं माहेन्द्रपरम्पराप्रतिनिधिप्रधानं कातन्त्रमिदं भूयस्त्वेन पृथिव्यां प्रचरेत् । संक्षेपसारल्यादिवैशिष्ट्यविभूषितमिदं व्याकरणं छान्दसान्, शास्त्रान्तररतान्, तृष्णादिसंसक्तान् वणिजः, वाच्यनिरतान् ईश्वरान्, आलस्ययुतांश्चापि जिज्ञासून स्वल्पसमये क्षिप्रप्रबोधेनातितरामुपकरोति । एतादृशीमस्य वैलक्षण्यपरम्परां मनसिकृत्य विश्वविद्यालयोऽयं टीकाचतुष्टयसम्पादन-परिशिष्टसंयोजन-समीक्षासंवलितस्यास्य महतीं प्रकाशनयोजनामिमामङ्गीचकार । इतः पूर्वं प्रथमो भागः, द्वितीयभागस्य प्रथमखण्डश्च प्रकाशितः सँल्लोकार्पितोऽभूत् । द्वितीयभागस्य द्वितीयखण्डोऽयं कारक-समास-तद्धितविषयविवेचनपर उपयोगिताबाहुल्येन पूवपिक्षया महनीयं गौरवं बिभर्ति । उच्यते च वाररुचसङ्ग्रहे कारकीयावबोधप्राधान्यविषये - ___ 'प्रयोगमिच्छता ज्ञातुं ज्ञेयं कारकमादितः'।इति । सम्पादकः श्रीद्विवेदो न केवलं विषयमिममधिकृत्य वाचस्पति - (डी० लिट्०) शोधोपाधिमधिगतवान् विश्वविद्यालयादस्मात्, अपि च स ततो निरन्तरमिदं महता श्रमेण, यलेन चाधीयानो लेख-ग्रन्थमाध्यमेनास्य वाङ्मयश्रियं संवर्धितवान् । प्रकृते खण्डे वृत्ति-टीका-विवरणपज्जिका-कलापचन्द्रेति प्रख्यातटीकाचतुष्टयस्य वचनसन्दर्भादिनिर्देशपुरस्सरं वैज्ञानिकं सम्पादनम्, पाणिनीयव्याकरणेन, प्रातिशाख्यैः, बृहदेवता-नाट्यशास्त्रादिभिः सह समीक्षात्मकमध्ययनं च प्रस्तुतमस्ति । सुदुस्तरे समीक्षाभागे शब्दरूपांसद्धिप्रक्रियाप्रदर्शनमपि महते उपकाराय प्रकल्पते । इदमपि ध्यातव्यं तथ्यमाभाति यट्टीकाचतुष्टयानन्तरं संयोजितेषु परिशिष्टेषु कातन्त्रपरिशिष्ट-रूपसिद्धिशब्दोद्धृतश्लोकवचन-व्युत्पत्तिपरकशब्द-पारिभाषिकशब्दविशिष्टशब्द-ग्रन्थ-आचार्यनामावलीनामक्षरानुक्रमयोजनया कातन्त्रीय-मुद्रितग्रन्थहस्तलेखानां संक्षिप्तपरिचयेन च विदुषां मनसि सन्तोषो भवेदेव | भूमिकाभागे सम्पादकेन पाणिनीयव्याकरणापेक्षया कातन्त्रीयविध्यादिनिर्देशे साम्यम्, वैषम्यम्, व्याख्याकाराणां सङ्ग्राह्याभिमतानि, केषाञ्चिद् वचनानां पक्षाणां वा सुखप्रतिपत्तिप्रपञ्च-वैचित्र्य लक्ष्यानुरोधार्थ-बालावबोधाद्यर्थप्रदर्शन-सिद्धान्तादिसूचकवचनसङ्ग्रहश्च कृतः, तत्सर्वं सुखेन कातन्त्रीयविषयावबोधाय नूनमलं भवेत् ।Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 806