Book Title: Katantra Vyakaranam Part 02 Khand 02
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay
View full book text
________________
भूमिका
‘मोदकं देहि' इति वचनाश्रितस्य कालाप - कौमार-शार्ववर्मिक दौर्गसिंहीयेति नामचतुष्टयापरपर्यायस्य कातन्त्रव्याकरणस्य प्रथमे पञ्चपादात्मके सन्ध्यध्याये वर्णकार्यं दर्शितम्, तदात्मकः प्रथमो भाग : १९९७ तमे यीशवीयाब्दे प्रकाशितः । द्वितीये नामचतुष्टयाध्याये षट् पादा - विलसन्ति । चतुष्टयाभिधानेनास्मिन्नध्याये चत्वारो विषयाश्चत्वारि प्रकरणानि वा निरूपितानि सन्तीति विज्ञेयम् । चत्वारि प्रकरणानि च सन्ति - स्याद्यन्तशब्दाः कारकम् समासस्तद्धितश्चेति । यथोच्यते
शब्दानां साधनं यत्र कारकाणां च निर्णयः ।
समासस्तद्धितो यत्र तच्चतुष्टयमुच्यते ॥ इति ।
विभक्तयोऽर्थमाश्रित्य प्रवर्तन्ते, अर्थश्च भवति कर्तृकर्मादिकारकलक्षण:, तस्मात् पादत्रितये स्यादिविभक्त्यन्त शब्दसाधनमङ्गीकृत्य चतुर्थे पादे आचार्य - शर्ववर्मणा कारकाणि विवेचितानि । यद् वा वाक्यं हि क्रियाप्रधानम् । क्रियाया विशेष्यत्वात् कारकं च विशेषणम्, ततश्च नागृहीतविशेषणा बुद्धिर्विशेष्ये चोपजायते, अर्थाद् विशेषणज्ञानमन्तरेण विशेष्यज्ञानं न भवतीति पदकार्ये कर्तव्ये आख्यातात् प्राक् चतुष्टयप्रकरणं प्रारब्धम्, तत्र च स्यादिविभक्तिकार्यं निरूप्य कर्तृकर्मादिरूपार्थप्रदर्शनाय कारकमुच्यते चतुर्थे पादे । ततः स्याद्यन्तपदेषु स्यादिप्रत्ययानां तदीयप्रकृतीनां चैकार्थीभावम् आख्यातुकाम आचार्यः पञ्चमे पादे समासप्रकरणं प्रारब्धवान् । स्याद्यन्तशब्देभ्यो ये प्रत्ययाः प्रवर्तन्ते तेषामभिधानाय षष्ठे पादे तद्धितप्रकरणं प्रस्तुतमस्ति । एवं नामचतुष्टयाख्यद्वितीयाध्यायस्योत्तरार्धे विनियोजिता एते चतुर्थ - पञ्चम-षष्ठपादाः कारक - समास-तद्धितविषयका द्वितीयभागस्य प्रकृते द्वितीयखण्डे संगृहीताः सन्ति । इतः पूर्वं नामपदसाधकं प्राथमिकपादत्रितयात्मकं प्रथमं खण्डं द्वितीयभागस्य १९९८ तमे यीशवीयाब्दे प्रकाशनपूर्णतामाप्नोत् । तदीयानि वैशिष्ट्यानि भूमिकायां निदर्शनार्थं संगृहीतानि । प्रकृतखण्डे पाणिनीयव्याकरणापेक्षया यद् यद् वैशिष्ट्यं विभाति, तत् सर्वं प्रायेण संक्षेपत इह
"

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 806