Book Title: Jivan Shreyaskar Pathmala
Author(s): Kesharben Amrutlal Zaveri
Publisher: Kesharben Amrutlal Zaveri
View full book text
________________
भक्तामरस्तोत्रम् ]
[६७६
स्त्रीणां शतानि शतशो जनयन्ति पुत्रान् ,.. नान्यसुतं त्वदुपमं जननी प्रसूता। . . सर्वा दिशो दधति-भानु-सहस्ररश्मिः, प्राच्येव दिग्जनयति स्फुरदंशुजालम् ।।२२।। त्वामामनन्ति मुनयः परमं पुमांसमादित्यवर्णममलं तमसःपुरस्तात् । त्वामेव सम्यगुपलभ्य जयन्ति मृत्यु नान्यः शिवः शिक्पदस्य मुनीन्द्र! पन्थाः॥२३॥ त्वामव्ययं विभुमचिन्त्यमसङ्ख्यमादयं, ब्रह्माणमीश्वरमनन्तमनङ्गकेतुम् । योगीश्वरं विदितयोगमनेकमेकं, ज्ञानस्वरूपममलं प्रवदन्ति सन्तः ॥ २४ ॥ बुद्धस्त्वमेव - विबुधार्चितबुद्धिबोधात्, त्वं शङ्करोऽसिभुवनत्रयशङ्करत्वात् । .. धाताऽसि धीर ! शिवमार्गविधेर्विधानात्, ... व्यक्तं त्वमेव भगवन् ! पुरुषोत्तमोऽसि ॥२५॥ तुभ्यं नमस्त्रिभुवनातिहराय नाथ ! तुभ्यं नमः क्षितितलामलभूषणाय । तुभ्यं नमस्त्रिजगतः परमेश्वराय, तुभ्यं नमो जिन ! भवोदधिशोषणाय ॥ २६॥ को विस्मयोऽत्र यदि नाम गुणरशेषैस्त्वं संश्रितो निरवकाशतया मुनीश ! । दोषैरुपात्तविविधाश्रयजातगर्वैः, स्वप्नांतरेऽपिन कदाचिदपीक्षितोऽसि ॥२७॥

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368