Book Title: Jivan Shreyaskar Pathmala
Author(s): Kesharben Amrutlal Zaveri
Publisher: Kesharben Amrutlal Zaveri

View full book text
Previous | Next

Page 352
________________ कल्याणमन्दिरस्तोत्रम् [२८५ हृद्धर्तिनि त्वयि विभो ! शिथिलीभवन्ति, जंतोः क्षणेन निविडा अपि कर्मबन्धाः । सदयो भुजङ्गममया इव मध्यभागमभ्यागते वनशिखण्डिनि चन्दनस्य ॥ ८॥ मुच्यंत एव मनुजा सहसा जिनेन्द्र ! रौद्र्रुपद्रवशतैस्त्वयि वीक्षितेऽपि । गोस्वामिनि स्फुरिततेजसि दृष्टमात्रे, चोरैरिवाशु पशवः प्रपलायमानैः ॥ ६ ॥ त्वं तारको जिन ! कथं ? भविनां त एव, त्वामुद्वहन्ति हृदयेन यदुत्तरन्तः । यद्वा दृतिस्तरति यजलमेष नूनमन्तर्गतस्य मरुतः स किलानुभावः ॥ १० ॥ यस्मिन् हरप्रभृतयोऽपि हतप्रभावाः, सोऽपि त्वया रतिपतिः क्षपितः क्षणेन । विध्यापिता हुतभुजः पयसाऽथ येन, पीतं न किं तदपि दुर्धरवाडवेन ? ॥ ११ ॥ स्वामिन्ननल्पगरिमाणमपि प्रपन्नास्त्वां जन्तवः कथमहो हृदये दधानाः । जन्मोदधिं लघु तरन्त्यतिलाघवेन, चिन्त्यो न हन्त ! महतां यदि वाप्रभावः॥१२।। क्रोधस्त्वया यदि विभो ! प्रथमं निरस्तो, ध्वस्तास्तदा बत कथं किल कर्मचौराः ? प्लोषत्यमुत्र यदि वा शिशिराऽपि लोके, नीलमाणि विपिनानि न कि हिमानी ॥१३।।

Loading...

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368