Book Title: Jivan Shreyaskar Pathmala
Author(s): Kesharben Amrutlal Zaveri
Publisher: Kesharben Amrutlal Zaveri

View full book text
Previous | Next

Page 357
________________ २६०] [जीवन-श्रेयस्कर-पाठमाला . आकर्णितोऽपि महितोऽपि निरीक्षितोऽपि, ननं न चेतसि मया विधुतोऽसि भक्त्या। जातोऽस्मि तेन जनबान्धव : दुःखपात्रं, यस्माक्रियाःप्रतिफ लन्ति न भावशून्याः। ॥३८।। त्वं नाथ ! दुःखिजनवत्सल ! हे शरण्य !, कारुण्यपुण्यवसते ! वशिनां वरेण्य ! । भक्त्या न ते मयि महेश ! दयां विधाय, दुःखाङ्कुरोद्दलनतत्परतां विधेहि ॥ ३९ ।। निःसङ्ख्यसारशरणं शरणं शरण्यमासाद्य सादितरिपुप्रथितावदानम । त्वत्पाद पङ्कजमपि प्रणिधानवन्ध्यो, वध्योऽस्मि चेद् भुवनपावन ! हा हतोऽस्मि ॥४०॥ देवेन्द्रवन्ध ! विदिताखिलवस्तुसार !, संसारतारक ! विभो ! भुवनाधिनाथ ! । त्रायस्व देव ! करुणाहृद ! मां पुनीहि, सीदन्तमद्य भयदव्यसनाम्बुराशेः ॥४१॥ यद्यस्ति नाथ ! भवदघ्रिसरोरुहाणां, भक्तेः फलं किमपि सन्ततसञ्चितायाः। . तन्मे त्वदेकशरणस्य शरण्य ! भूयाः, स्वामी त्वमेव भुवनेऽत्र भवान्तरेऽपि ॥ ४२ ॥ इत्थं समाहितधियो विधिवजिनेन्द्र ! सान्द्रोल्लसत्पुलककञ्चुकिताङ्गभागाः । स्वद्विम्बनिर्मलसुखाम्बुजबद्धलक्ष्या, ये संस्तव तव विभो ! रचयति भध्याः ॥४३॥

Loading...

Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367 368