Book Title: Jivan Shreyaskar Pathmala
Author(s): Kesharben Amrutlal Zaveri
Publisher: Kesharben Amrutlal Zaveri

View full book text
Previous | Next

Page 361
________________ २६४] [ जीवन-श्रेयस्कर-पाठमाला निषूदते यो भवदुःखजालम्, निरीक्षते यो जगदन्तरालम् । योऽन्तर्गतो योगिनिरीक्षणीयः, स देवदेवो हृदये ममास्ताम्॥६॥ विमुक्तिपार्गप्रतिपादको यो, यो जन्ममृत्युव्यसनातीतः। त्रिलोकलोकी विकलोऽकलंकः, स देवदेवो हृदये ममास्ताम्।।७॥ क्रोडीकृताशेषशरीरिवर्गा, रागादयो यस्य न संति दोषाः । निरिन्द्रियो ज्ञानमयोऽनपायः, स देवदेवो हृदये ममास्ताम्॥८॥ यो व्यापको विश्वजनीनवृत्तिः, सिद्धो विबुद्धो धृतकर्मबन्धः । ध्यातोधुनीते सकलं विकारं, स देवदेवो हृदये ममास्ताम् ॥ ६॥ न स्पृश्यते कर्मकल कदोषैः, यो ध्वान्तसंधैरिव तिग्मरश्मिः । निरञ्जनं नित्यमनेकमेकं, तं देवमाप्तं शरणं प्रपद्ये ॥ १० ॥ विभासते यत्र मरीचिमालि-न्यविद्यमाने भुवनावभासि । स्वात्मस्थितं वोधमयप्रकाशं; तं देवमाप्तं शरणं प्रपद्ये ।। ११ ।। विलोक्यमाने सति यत्र विश्वं विलोक्यते स्पष्टमिदं विविक्तम् । शुध्धं शिव शान्तमनाद्यनंतं, तं देवमाप्तं शरणं प्रपद्ये ।। १२ ॥ येन क्षता मन्मथमानमूर्छा-विषादनिद्राभयशोकचिन्ताः। क्षय्योऽनलेनेव तरुप्रपश्चस्तं देवबाप्त शरगां प्रपद्ये ॥ १३ ॥ प्रतिक्रपण- [प्रभुसमी पेस्वात्मचिन्तनं] विनिन्दनालोचनगर्हणैरहं, मनोवचःकायकपायनिर्मितम् । निहन्मि पापं भवदुःखकारणं, भिषग्विषं मंत्रगुणैरिवाखिलम् १४ अतिक्रम यं विमतेर्व्यतिक्रम, जिनातिचारं सुचरित्रकर्मणः । व्यधामनाचारमपि प्रमादतः, प्रतिक्रमं तस्य करोमि शुद्धये १५. नसंस्तरोऽश्मा न तृणं न मेदिनी, विधानतो नो फलको विनिर्मित यतो निरस्ताक्षकषायविद्विप, सुधीभिरात्मैव सुनिमलोमतः १६ न संस्तरोभद्र समाधिसाधनं, न लोक पूजा न च संघमेलनम् । यतस्ततोऽध्यात्मरतोभवाऽनिशं, विमुच्य सर्वामपिबाह्यवासनाम्

Loading...

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368