Book Title: Jivan Shreyaskar Pathmala
Author(s): Kesharben Amrutlal Zaveri
Publisher: Kesharben Amrutlal Zaveri
View full book text
________________
कल्याणमन्दिरस्तोत्रम् ]
[२८६
यद्गर्जदुर्जितघनौघमदभ्रमीम, भ्रश्यत्तडिन्मुसलमांसलघोरधारम् ।। दैत्येन मुक्तमयदुस्तरवारि दधे, तेनैव तस्य जिन ! दुस्तरवारिकृत्यम् ।। ३२ ॥ ध्वस्तो केशविकृताकृतिमय मुण्डप्रालम्बभृद्भयदवक्रविनिर्यदग्निः । प्रेतव्रजः प्रतिभवन्तमपीरितो यः, सोऽस्याऽभवत्प्रतिभुवं भवदुःखहेतुः॥३३॥ धन्यास्त एव भुवनाधिप! ये त्रिसन्ध्यमाधयन्ति विधिवद्विधुतान्यकृत्याः। भक्त्योल्लसत्पुलकपदमलदेह देशाः; . पादद्वयं तव विभो!भुविजन्मभाजः ॥३४ ।। अस्मिन्नपारभववारिनिधौ मुनीश!, मन्ये न मे श्रवणगोचरतां गतोऽसि । . आकर्णिते तु तव गोत्रपवित्रमन्त्रे, किं वा विपद्विषधरी सविधं समेति ॥ ३५ ॥ जन्मांतरेऽपि तव पादयुगं न देव!, . मन्ये मया महितमीहितदानदक्षम् । तेनेह जन्मनि मुनीश ! पराभवानां, जातो निकेतनमहं मथिताशयानाम् ।। ३६ ॥ नूनं न मोहतिमिरावृतलोचनेन, . . पूर्व विभो ! सकृदपि प्रविलोकितोऽसि । मर्माविधो विधुरयन्ति हि मामनर्थाः, .. प्रोद्यत्प्रवन्धगतयः कथमन्यथैते ॥ ३७॥

Page Navigation
1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368