Book Title: Jain_Satyaprakash 1945 08 Author(s): Jaindharm Satyaprakash Samiti - Ahmedabad Publisher: Jaindharm Satyaprakash Samiti Ahmedabad View full book textPage 6
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३२] શ્રી જૈન સત્ય પ્રકાશ [ વર્ષ ૧૦ ___ इति श्रीमत्तपागच्छाधिराज भट्टारक श्रीहीरविजय पूरीन्द्रशिष्य पंडित श्रीरत्नकुशलमहाकविविरचिते चतुरनरचक्र चक्रवर्ति निस्सोमभाग्याधिक श्रीजिनशासनप्रभावकपुरुषपुरोवर्ति महामंत्रि साह श्रीखीमसीभाग्याभ्युदये पुण्यप्रकाशापरनाम्नि महाकाव्ये श्रीसंघाधिपतिकीर्तियशःप्रतापादिव्यावर्णनोष्टमः सर्गः ॥ ८॥ अन्त्य प्रशस्ति विश्वख्याततपागणाधिपतयः सार्वत्रिकख्यातयः सौभाग्याद्भुतभाग्यतोयपतयः सम्यक्रियानीतयः। श्रीभट्टारकहोरहीरविजयश्रीसूरयः संप्रति . भूपालप्रतिबोधका विजयिनः संति प्रसिद्धाभिधाः ॥ ४९ ॥ जगदनुपमरूपध्वस्तकंदर्पदर्पः शशिविशदयशोभिः शोभिताशेषविश्वः । नरपतिकृतसेवः श्रीतपागच्छसूरिश्चतुरिमसुरसूरिभूरि भाभासते स्म ॥५०॥ विनमदवनिपालश्रेणिसंसेविताहिस्तपगगतटिनीशप्रीतिपीयूषपादः । सनयविजय लक्ष्मीदेवने देवकीभूर्जयति विजयसेनः सूरिशार्दूलशवः ॥५१॥ स्वच्छे सूरिपुरन्दरस्य जयिनो गच्छेप्यतुच्छे गणैः संख्यानो वरिवर्ति पंडितगुणिक्षुल्लादिसंख्यावताम् । रत्नानामिव कांतकांतिसजुषां रत्नाकरस्य स्फुरत् ताराणां च यथा पृथुधुतिभृतां श्रीतारकाधीशितुः ॥ ५२ ॥ यद्वैराग्यमखंडितं त्रिजगतीलोकोपकारः परः शान्तं यस्य मनः शमोऽति बहुलो भाग्यं ह्यसाधारणं भास्वच्छीलगुणेन साम्यमवहत् श्रीस्थूलभद्रप्रभोरासीत् पण्डितमौलिमंडनमणिः श्रीजीवराजो बुधः ॥ ५३ ॥ श्रीमत्पण्डितचक्रवर्तिसदृशः श्रीजीवराजो बुधः श्रीमद्वीरविनिर्मितातुलतपस्तुल्यं तपस्तप्तवान् स्वात्मानं नहि केवलं स कृतवानत्यंतशुद्धं महानहश्छाशनमप्यहो रचितवान् दीपधुता घोतितम् ॥ ५४ ॥ तपःकर्मोत्साहा विजययुजआनंदकुशलगणीन्द्रा गंगायाः सलिलभरसंशुद्धमनसः ॥ सदा जाग्रद्भाग्याभ्युदयनिधयः शुद्धमतयः श्चिरं राजन्ते ते सुगुणमणिरत्नाकरसमाः ॥ ५५ ॥ For Private And Personal Use OnlyPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36