Book Title: Jain_Satyaprakash 1942 06 07 Author(s): Jaindharm Satyaprakash Samiti - Ahmedabad Publisher: Jaindharm Satyaprakash Samiti Ahmedabad View full book textPage 6
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [४८१] શ્રી જૈન સત્ય પ્રકાશ [१५७ ॥ २७ ॥ गच्छेऽस्मिन् गणशो गतेषु गुरुकाचार्येष्वहार्यप्रभा धुर्याः श्रीजयपुंड्रसूरिगुरवः अभवन् मनोभूजितः । दुर्वादिवजनिर्जयार्जितयशः शुभ्रीकृताऽऽशांतरा येषामंहिसरोरुहेऽत्रभुवने कैः कैर्न भृगायितम् ? ॥ २६ ॥ विद्यौर्जित्ययुताः सुचारुचरणास्तत्पट्टपीठिमलंचक्रुः श्रीगुरवो वोदितसुधाः श्रीरत्नसिंहाभिधाः । दुर्जेयाजववर्जितार्जितमहामोहेभकुम्भस्थलध्वंसे शिश्रियुरश्रुताः श्रुतिभृतो ये वर्यहर्यक्षताम् एकं तत्त्वमबूबुधन्निह जनान् द्वौ द्वेषरागौन्यहन् कीर्त्या त्रीण्यपि ये जगन्ति बिभरामासुः सुधांशुत्विषा । दुर्धर्ष्याश्चतुरः क्षणेन निधनं निन्युः कषायद्विष... स्ते सम्प्रत्यमिता जयन्ति दधतो गच्छाधिपत्यश्रियम् ॥ २८ ॥ तत्पट्टाम्बरभास्करः सुरगुरुः प्रज्ञाप्रकर्षाद्वरः । श्रीमत् श्रीउदयादिवल्लभगुरुर्भाति प्रभाभासुरः । सिद्धान्तोक्तविचारसारचतुरः सच्छीलशोभाधरो ज्ञानात् सागरमरिरभुतगुणग्रामाकरः शंकरः ॥ २९ ॥ राजते रम्यचारित्रैः सूरिश्चारित्रसुन्दरः । उदयात् सागरमरिः मातले च क्षमोदधिः ॥ ३० ॥ श्रुत्वा श्रोतृसुखं वचो वरतरं तेषां गुरूणामसौ भ्राता धर्मिणीश्रेयसे बहुधनः श्रीराघवः साधुराट् । श्रीकल्पं समलीलिखन्निजधनैः सौवर्णवर्णं मुदा श्रीमदविक्रमतः युगांहिशरभूवर्षे (१५२४) मघौ मासि च ॥३१॥ स्तम्भनपार्श्वपवित्रितपुरेऽत्र सोमाख्यलिपिकृता लिखिते । चक्रिवान् प्रशस्तचेताः प्रशस्तिमेतामुदयधर्मः ॥ ३२ ॥ पुष्पदन्ताविमौ यावत् पुष्यतः क्षितिमण्डलम् । वाच्यमानो बुधैस्तावदयं दत्तां सतां मुदम् ॥ ३३ ॥ ॥ इति श्रीकल्पप्रशस्तिः ॥ श्रीः ॥ આ પ્રશસ્તિનું ભાષાન્તર હવે પછીના અંકમાં આપવામાં આવશે, (यायु) For Private And Personal Use OnlyPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44