Book Title: Jain Sahitya Sanshodhak Khand 01 Ank 01 to 02
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samaj Puna
View full book text
________________
विमल
जैन साहित्य संशोधक
[ भाग १ हेमसूरिपदपङ्कजहंसैः श्रीमहेन्द्रमुनिपैः श्रुतमेतत् । वर्द्धमान गुणचन्द्र-गणिभ्यां साकमाकलितशास्त्ररहस्यैः ॥ यावत्रिहताखिलसन्तमसो नभसि चकास्तो रविचन्द्रमसौ। तावत-हेमकुमारचरित्रं साधुजनो वाचयतु पवित्रम् ॥
विमलमतिसुधाचिर्नेमिनागाङ्गजन्माऽभवदभयकुमारः श्रावकः श्रेष्ठिमुख्यः।
अथ निजकरपद्यप्राप्तधर्मार्थपद्मा विजितपदकपद्मा तस्य पनाति पत्नी ।। तत्पुत्रा गुणिनोऽभवन् भुवि हरिश्चन्द्रादयो विश्रुताः श्रीदेवीप्रमुखाश्च धर्मधिषणापात्राणि तत्पुत्रिकाः। तत्प्रीत्यर्थमिदं व्यधायि तदुपट्टरागच्छष्टात्मभि (?)-भूयिष्ठानि च पुस्तकानि ............ सोऽलेखयत् ।। शशिजलधिसूर्यवर्षे शुचिमासे रविदिने सिताष्टम्याम् । जिनधर्मप्रतिबोधः क्लप्तोऽयं गुजरेन्द्रपुरे । प्रस्तावपञ्चकेऽप्यत्राष्टौ सहस्राण्यनुटुभाम् । एकैकाक्षरसंख्यातान्यधिकान्यष्टभिः शतैः॥
संवत् १४५८ वर्षे द्वितीयभाद्रपद शुदि ४ तिया शुक्रदिने श्रीस्तंभतीर्थे बृहद्ध ( वृद्ध ) पौषधशालायां भट्ट. श्रीजयतिलकसरीणां उपदेशेन श्रीकुमारपालप्रतिबाघपुस्तकं लिखितमिदं ॥ कायस्थ ज्ञातीयमहं मंडलिकपुत तालिखितं ।। चिरं
। उ० श्रीजयप्रभगणिसष्य ( शिष्य ) उ• श्रीजयमंदिरगणि सष्य (शिष्य ) भट्टा० श्रीकल्याणरत्नसूरिगुरुभ्यो नमः पं० व (वि) द्यारत्नगणि ।
सोमप्रभाचार्य रचित शतार्थवृत्तकाव्यनी टीकाना प्रारंभमां नीचे प्रमाणे ५ श्लोको आपघामां आ· व्या छे जेमा १०० अर्थोनी अनुक्रमणिका आपवामां आवी छे.
अत्र स्तुताश्चतुर्विंशतिजिना : सिद्ध-सूर्य उपाध्यायाः । मुनि-पुण्डरीक-गौतम-सुधर्म-पञ्चव्रती-समयाः ।। ध्रुतदेवी-पुरुषार्थाः विधि-नारद-देव-विष्ण-बलभद्राः । श्रीः पद्युम्नश्चक शख-शिव-गिरिसुता-स्कन्दाः ।। हेरम्बः कैलाशो ग्रह-दिक्पाला जयन्त-घन-मदिराः । कनका-ऽधि-सिंह-हय-करि-सरोज-भुजगाः शुकोऽरण्यम्।। मानसरो--ऽस्त्र-वैद्या-ऽनिळसुत-पत्नी-महा-गुरुचतुष्कम् । जयसिंह-कुमारनृपाः जयदेवो मूलराजश्च ॥ श्रीसिद्धपालकवि रजितदेवसूरि-गुरुर्विजयसिंहः । तच्छिष्यः सोमप्रभसूरिश्च शतार्थवृत्तकविः ।।
शतार्थवृत्तनी वृत्तिना अंतमा सोमप्रभाचार्यना पिताविगेरेना उल्लेखवाला जे श्लोको आप्या छे ते नीचे प्रमाणे छे.स एव शिष्यः स्वरुतः कवित्वगुरोगरिम्ना जितकाञ्चनाः। गृहस्थभावा-ऽन्वयकीर्तनेन व्यनक्ति भक्ति पुनरुक्तमेताम् ।। प्राग्वाटान्वयनीरराशिरजनीजानिर्जिना परः संजातो जिनदेव इत्यभिधया चूडामणिमन्त्रिणाम् । यस्यौदार्य-विवेक-विक्रम-दया-दाक्षिण्य-पुण्यैर्गुणैः। साम्यं लब्धुमहर्निश जगदपि क्लिश्यन्न विधाम्यति॥
तस्याऽऽत्मजः सुजनमण्डलमौलिरत्नमुज्जृम्भितेन्द्रियजयोऽजान सर्वदेवः । एकस्थसर्वगुणनिर्मितकौतुकेन धात्रा रुतोऽयमिति यः प्रथितः पृथिव्याम् ।। सूनुस्तस्य प्रथमकमलादर्पण: पुण्यकामः कौमारेऽपि स्मरमदजयी जैनदीक्षा प्रपन्नः। विश्वेस्याऽपि श्रुतजलनिधः पारमासाद्य जज्ञे श्रीमान् सोमप्रभ इति लसत्कीर्तिराचार्यवर्यः।। यो गृणाति समश्रुतं वहति यस्तोद्भुतं पाटवं काव्यं यस्त्वरितं करोति तनुते यः पावनी देशनाम् । योऽवघ्नात् सुमतेश्चरित्र + + भट्टाः सूक्तिपङ्क्तिपरां श्रीसोमप्रभसूरिरेष वृत्ते शतार्थे व्यधान् ।।
Aho! Shrutgyanam

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274