Book Title: Isibhasiyaim
Author(s): Walther Schubring, Dalsukh Malvania
Publisher: L D Indology

View full book text
Previous | Next

Page 161
________________ १४० ऋषिभाषितटीका साधयित्वा सर्वदुःखेभ्यो मुच्यते (१)॥ एष त्वर्थत एव श्लोकयोरनुक्रम इति व्यक्तम् (३)॥(४)॥ मर्म सशल्यजीवं च पुरुषं वा मोहघातिनं गुरु शल्योद्धरणयोगं च यो जानाति स शल्यहा (५)।। (६) (७)। 'परकीयसर्वसावद्ययोगं दुश्चरितमिहाद्य नाचरेत् अपरिशेषं सर्वथा निरवद्ये चरिते स्थितस्य न कल्पते पुनरपि सावद्य सेवितुम् । एतानि गद्य-पदानि विदु-नामर्भाषितमिति दृश्यते, पूर्वगतास्तु तृतीयादयः श्लोकाः शेषभाषितानां कल्पेन तद्विवरणत्वाद् गद्यानुबद्धव्याः ॥ विद्वध्ययनम् । अयतो त्यक्तयत्नः खलु भो जीवः पुरुषो वज्र हिंसां समाददाति । कथमेतत् ! प्राणातिपातेनादिनाऽरतिरतिभ्यां मृषामायया मिथ्यादर्शनशल्येन वज्रं समादाय हस्तादिच्छेदनानि प्रत्यनुभवमानाः संसारसागरमनुपरिवर्तन्ते जीवा यथोक्तं नवमाध्ययने । यः खलु भो जोवो वज्रं न समाददाति, कथमेतत् ? अस्यास्तु पृच्छाया उत्तरादवियोजनीयत्वाद् ऋषि-नाम अयत इत्यादि प्रथमवाक्यमनुसारयितव्यम् । उत्तरं तु यथा प्राणातिपातादिविरमणेन श्रीत्रादीन्द्रियनिग्रहेण वज्रमसमय॑ हस्तादिच्छेदनानि व्यतिपत्य शिवं स्थानमभ्युपगतास्तिष्ठन्ति । शकुनी शङ्कुप्रघात तथा वारिपात्रधरो वरत्रं रज्जुं च विभज्य विभावयेताम् (१)॥ वार्षगण्याध्ययनम् । सर्वमिदं जगत् पुराऽतीतकाल आर्यमासीत् । -(१)॥(२) (३) (४)।। किंरूपं तु तदामिति आर्य साधु ज्ञानादित्रयं, तस्माद् आर्य सेवस्व (५)॥ आर्यायणाध्ययनम् ।। २० उत्कटाः पञ्च प्रज्ञप्ताः, तद् यथा दण्डोत्कटो रज्जूत्कटः स्तेनोत्कटो देशोत्कटः सर्वोत्कटः । दण्डोत्कटो नाम यो दण्डदृष्टान्तेन आद्यमध्यावसानानां प्रज्ञापनया समुदयमानं शरीरमित्येतान्यभिधानानि व्याहरन् नास्ति शरीरात् परं जीव इत्येतेन प्रवादेन च भव-गति-यवच्छेदं वदति । रज्जूत्कटो नाम यो रज्जुदृष्टान्तेन समुदयमात्रशरीरप्रज्ञापनया पञ्चमहाभूतस्कन्धमात्रं शरीरमित्येतान्यभिधानानि व्याहरन् संसारसंसृतिव्यवच्छेदं वदति । स्तेनोत्कटो नाम योऽन्यशास्त्रदृष्टान्तग्राहैः स्वपक्षोद्भावनानिरतो ममैतदितिव्याहरन् परकरुणच्छेदं वदति । देशोत्कटो नाम योऽस्ति न्वेष जीव इति सिद्धे सति अकादिका है नीवस्य देशोच्छेदं अपूर्ण छेदं वदति । सर्वोत्कटो नाम यः सर्वतो जीवस्य संभवाभावान् न तृतीयं संभवासंभवयोः परं प्रागुक्तं देशसम्भवं भवति,

Loading...

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198