Book Title: Isibhasiyaim
Author(s): Walther Schubring, Dalsukh Malvania
Publisher: L D Indology

View full book text
Previous | Next

Page 166
________________ ऋषिभाषितटोका १४५ तिपातयतोऽनुमोदयन्ति समनुजानन्ति, एवमेव मृषा भाषन्त इत्यादि करणत्रिकम् , अविरता अप्रतिहताप्रत्याख्यातपापकर्मणो मनुजा इत्यतत्क्षणात् पठितव्यत्वादिहापास्यम् , ते स्वयमेवादत्तमाददते अब्रह्म-परिग्रहौ गृह्णन्तीत्यालापकः पूर्ववत् । एवमेव तेऽसंयताऽविरता अप्रतिहताप्रत्याख्यातपापकर्मणः क्रियावन्तोऽसंवृता एकान्तदण्डा एकान्तबाला बहु पापं कर्म कलिकलुषं समय॒तश्च्युता दुर्गतिगामिनो भवन्त्येभिर्दारिता आदानैः । ये खलु आर्याः पापैः कर्मभिर्विप्रमुक्ता भवन्ति ते खलु गर्भवर्षासु न सजन्ति । ते न स्वयमेव प्राणिनोऽतिपतन्तीत्यादि विपरीतं पूर्व यावदक्रियावन्तः संवृता. एकान्तपण्डिता व्यपगतरागद्वेषास्त्रिगुप्तिगुप्तास्त्रिदण्डोपरता निःशल्या आत्मरक्षिणो व्यपगतचतुःकषायाश्चतुर्विकथाविवर्जिताः पञ्चमहाव्रतधराः, धर त्ति अपरित्याज्यं, पुस्तकेषु तु न दृश्यते, तिगुत्त त्ति त्रिगुप्त न यथासंख्यं, पञ्चेन्द्रियसंवृत्ताः षड्जीवनिकायसुष्टुनिरताः सप्तभयविप्रमुक्ता अष्टमदस्थानहीना नवब्रह्मचर्ययुक्ता दशसमाधिस्थानसंप्रयुक्ता बहु पापं कर्म कलिकलुषं क्षपयित्वेतश्च्युताः सुगतिगामिनो भवन्ति । हे भगवन्नम्बट, ते सूत्रमार्गानुसारिणः क्षीणकषाया दान्तेन्द्रियाः शरीरसंधारणार्थ योगसंशनीय नवकोटिपरिशुद्धत्यादिप्रसिद्धलक्षणं पिण्डं तादृशां भिक्षां शय्यां चोपधिं च गवेषमाणाः साधवः सङ्गतगतहसितभणितैः सुन्दरस्तनजघनैश्च प्रतिरूपा रूपवत्यः स्त्रियो दृष्ट्वा न तेषां मनसाऽपि प्रादुर्भावं गच्छन्ति मैथुनार्था ग्रामधर्माः । एतावदेव ऋषिभाषितमित्यम्बटस्य संबोधितत्वादनुमेयम् , शेषाणामृषिभापितानां वाग्वृत्तिं त्वनुसृत्य हारिता इत्यादि लघुवाक्यं यौगन्धरायणभाषितमिति । कथमेतदिति कथं सा क्षीणकषायता दान्तेन्द्रियतेत्युच्यते । सा भवति विगतरागता सरागस्याप्यपेक्ष्येति केवले स्त्र विषये न तु सर्वथा हतमोहस्येत्यर्थ इव दृश्यते । तत्र तत्रेतरेतरेषु कुलेषु पिण्डं गवेषमाणा इत्यादि पञ्चदशाध्ययनवत् (१)॥ स शुद्धपिण्डः कथमिति हस्ति-महावृक्षनिदर्शनं, पाउत्ति पात्रम् , तैलपात्रधर्ममप्रमादगुणवर्णनगर्भ पञ्च चत्वारिंशाध्ययनस्य द्वाविंशे श्लोके सूचितं किम्माकफलनि दर्शनं मूढत्वप्रकाशकं च । अपरं च-यथा नामैकः शाकटिकोऽक्षं म्रक्षेदेष मम - न भक्ष्यति भारं च मे वहिष्यतीति चिन्तयन्, एतयोपमया श्रमणो निम्रन्थः षट्सु स्थानेष्वाहारमाहारयन् नातिकामति, तद् यया वेदना-वैयापृत्य-ईर्या

Loading...

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198