Book Title: Isibhasiyaim
Author(s): Walther Schubring, Dalsukh Malvania
Publisher: L D Indology
View full book text
________________
१५४
ऋषिभाषितटीका तस्यैव तु विनाशाय संततं सदा प्राज्ञो वर्तेत (६)॥ व्याधिक्षयाय दुःखं वा सुखं वा यद् यद् औषध भवति तद् तद् वैद्यस्य ज्ञानेन देशितं दिष्टम् , एवमेव मोहक्षयाय दुःख सुख वा यो य उपायो दिष्टो गुरूणा (७) ॥ न चिकित्सति कुवैद्यो यदि वा न चिकित्स्यते कुवैधेन दुःख सुखं वा यथाहेतु हेतुविशेषं विभज्य, किं तु सामान्यचिकित्सिते वैद्यशास्त्रे सुयुक्तस्य कोविदस्य दुःखसुखे भवतः सुज्ञाते । एवमेव मोहक्षये अर्थाज्ज्ञानमार्गे युक्तस्योभे सुज्ञाते, न त्वयुक्तस्य हेतुविशेषेणेत्यनयोः श्लोकयोरथ ग्रहीतुमस्मत्प्रयत्नः (८.९) ॥ संवेगो नरकादिगत्यवलोकनात् संभीतिनिर्वेदो विषयेष्वनभिषङ्ग इति सिद्धसेनः । तुच्छे निःसारे जने संवेग इति, उत्तमे तु निर्वेद इत्येतो दीनानां जनानां भावो यदि वा दीनौ च भवतो भावी चेति दीन-भावौ, तयोर्विशेषस्तयोविशेषमधिकृत्य तावद् उपदेशनमुपदेशोऽस्ति, ज्ञानं लोकानामध्यात्मविद्यारूपं विना नास्त्युपदेश इति भावः (१०) ॥ नानाऽवस्थोदयान्तरे पुरुषाणां भिन्नावस्था अनुसृत्य सर्व स्तीर्थकरैर्भाषिता वाण्युपदेशः सामान्येन गीतनिर्माणोऽपदिष्टात्मपरिणामा भवति, विशेषे तु मर्मवेधिनी प्रत्येकपुरुषस्य छिद्रभित् (११) ॥ सर्वसत्त्वदयो वेषो लिङ्गलक्षितं मुनित्वं भवत्यनारम्भोऽपरिग्रहश्च, सत्त्वं सदभावं तपो दानं चैव जिनसत्तमा भाषन्ते (१२) ॥ (१३) ॥ किमु दान्तस्यारण्येनाश्रमेण वा ? न किञ्चिदित्यर्थः , यथाऽतिक्रान्तस्य रोगाद् विमुक्तस्य पुरुषस्य भैषज्यं नास्ति न च शस्त्रस्याभेद्यता, तद्धि स्वभावाद् अभेद्यम् एव (१४) ।। सुभावेन भावितात्मनः शून्यमिव दृश्यतेऽरण्यं ग्रामे वां धनं, सर्वमेतद्धि जगद् धर्मध्यानाय तस्य भवति यथा शल्यवतश्चित्ते शल्यमात ध्यानाय (१५)। दुरन्तस्य तु चित्ते नानावस्था वसुंधरा पृथिवी दुःखरूपा सर्वं च कर्मादानाय भवति यथा कामिनश्चित्ते कामः (१६) ॥ (१७) ॥ सार्थकमर्थसहितमिवारम्भ करणं निरर्थकं जानीयाद् यथा प्रतिहस्तिनं पश्यंस्तटं घातयति वारणः (१८)॥ यो यस्य कार्यस्य योगः प्रयत्नस्तं साधयितुं योऽसमर्थः स तत् कार्य सर्व वर्जयति कामींव श्रमणस्य नग्नभावं मुण्डभावं च (१९) ॥ धीरः शरणं जानीयात् , न दुर्गादजेयात् कोटिं गिरिशिखरं शरणरहितमेति, दृप्तं सिंहं छेकं वेभं गज जम्बुकः शृगालो न तेजयेत् क्रोधयेदिति, भोज्ज त्ति पाठो निरर्थकः शृगालस्य सिंहादिभोक्तत्वासंभवात् (२०)॥ वेषप्रच्छादनसंबद्धो रजोहरणादिलिङ्गसहितो नवतत्त्वरतोऽसंबद्धं तत्त्वविरुद्धं पुरुषं सदा वारयेत् , नालं भवति धारयितुं बुद्धिमान् नानारतिप्रयोजक (२१) ॥ सर्वदा न क्रुध्येन्मुनिर्यदि तु केनचित् कारणेन

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198