Book Title: Isibhasiyaim
Author(s): Walther Schubring, Dalsukh Malvania
Publisher: L D Indology
View full book text
________________
ऋषिभाषितटोका
१५५ ब्रह्मचारी यतिः क्रुद्धः संज्वलेत् तदात्मनो मोहदीपनं वर्जयेत् , मूढस्य हि व्याधस्य सायकं मृगान् नाप्येति न विध्यति, एवं मूढो मुनिर्न भवेज्ज्ञानभाक् (२२) ॥ प्रच्छादनं वेषं रूपं लिङ्गं च निश्चयेन विभावयेत् , किमर्थं वा गायति व्याधस्तूष्णीका तु भवन्ति पक्षिणः ? गायतोऽपि व्याधस्य हननाभिप्रायं वेषाच्च लिङ्गाच्चानुमान्ति विहगा इति भावः (२३) ॥ लौकिककार्यनिर्वृत्तिप्रयोजके कार्यकारणे आदेये, ते एव मोक्षनिर्वृत्तिप्रयोजके विशेषतो विज्ञेये (२४) ॥ परिवारेण च वेषेण च यद् भावितं तद् विभावयेन्न च ताभ्यां वञ्च्येत, परिवारेणापि गम्भीरेण परिवृतो नीलजम्बुकः कथाप्रसिद्धो न राजाऽभवच्छ्वापदानामवञ्चनीयत्वात् (२५) ॥ अर्थादायिनमर्थलोभिनं जनं जानीयान्नानाचित्तानुभाषकमन्यमतानुगामिनं, तस्माद् अर्थसन्तति निरन्तरार्थलोभं पश्यतः श्रेयान् भवत्यर्थादायिभिर्विसङ्गो वियोगः (२६) ॥ दम्भकल्पं कृत्तिसमं कृत्त्या जम्बुकसमानं निश्चयेन विभावयेत् निखिलं राजप्रतापस्यामोषं कृत्वोपचारे वृत्तौ परीक्ष्यते विज्ञायते (२७)॥ स्वभावे दुर्वलं जानीयान्नानावर्णानुभाषकं विविधजात्यनुकारिणं यथा सुनन्दा पुष्पादाने प्लवकारगृहं गता, अस्य तु श्लोकार्धस्यार्थः कथाया अज्ञातत्वादस्पष्ट एव (२८)। द्रव्ये क्षेत्रे च काले च सर्वभावे च सर्वथा सर्वेषां लिङ्गवतां जीवानां भावनां विभावयेत् । (२९) शारिपुत्रीयमध्ययनम् ।
३९
य इदं पापं कर्म न कुर्यान्न कारयेद्, देवा अपि तं नमस्यन्ति धृतिमन्तं दीप्ततेजसम् (१)।। (२) (३)।। चतुर्थस्य पूर्वार्धमपूर्णम्, उत्तरार्धे तु कर्मसञ्चयविषयं, यस्य विपाकेन साधुर्भूयोऽपि जायते (४)। रहस्ये खलु भो पापं कर्म समय॑ द्रव्यतः क्षेत्रतः कालतो भावतः कर्मतोऽध्यवसायतः सम्यग अपरिकुञ्चमानोऽनिगूहन्नालोचयेत् ।-भद्रकै रसैभद्रकेन च संवासेन लौकिकजीवितेन नास्ति मे कार्यम् । कोदृशेन संवासेन ? यत्र सञ्जयो काननवासिनो मृगान् वधायोपनामयति व्यापादयति (५)॥ सञ्जयीययमध्ययनम् ।
पुरा अचिरादेव प्रव्रजितः सन् साधुरिच्छां यदि वा पुरा प्रव्रज्यायाः पुरस्ताद् इच्छन्नभिलाषवाननिच्छां कुर्याद् आत्मसन्तोषमङ्गीकुर्यात् । -इच्छा बहुविधा भवति लोके यया बद्धः क्लिश्यति, तस्मादिच्छामनिच्छया जित्वा सुखम्

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198