Book Title: Isibhasiyaim
Author(s): Walther Schubring, Dalsukh Malvania
Publisher: L D Indology

View full book text
Previous | Next

Page 174
________________ ऋषिभाषितटीका १५३ हृष्टं च भस्म च समीक्ष्य प्राज्ञो जितात्मा सदा कोपं निरुन्ध्यात् (१६) ॥ तारायणीयमध्ययनम् । ३७ सर्वमिदं जगत् पुरोऽदकमासीत् । - अत्राण्डौं संतप्तमत्र लोकः सम्भूतः, अत्र साश्वासो जातः, इदं नोऽस्माकं मते वरुणविधानमिति केचित् । अन्ये तूभयतःकालमुभयतःसंध्यं क्षीरं नवनीतं मधु समित्समाहारं क्षारं शङ्ख च पिण्डयित्वाऽग्निहोत्रकुण्डं प्रतिजागरयमाणो विहरिष्यामीति तस्मादेतत् सर्वमिति ब्रवीमीति । वयं तु नवि त्ति न माया नैवाद्भुतविधानं मन्तव्यं, किं तु न कदाचिन्नासीन्न कदाचिन्न भवति न कदाचिन्न भविष्यति च लोक इति वदामः । पडुप्पण्णं इणं सोच्च त्ति प्रत्युत्पन्नं वर्तमानमिदं श्रुत्वेति त्रीणि पदानि श्लोकपाद इव दृश्यन्ते न च पूर्वगतेन न नैव पश्चाद्गतेन सम्बद्धुं शक्यानि । सूर्यसहगतो निर्ग्रन्थो गच्छेदाद् यत्रैव सूर्योऽस्तमियात् क्षेत्रे वा निम्ने वा तत्रैवोषित्वा प्रादुः प्रभातायां रजन्यामतीतायां रात्रावुत्थिते सूर्ये सहस्ररश्मौ दिनकरे कीदृशे ? तद् औपपातिकपाठेनोच्यते : विकसितोपले चोन्मीलितकमलकोमले च पण्डुरप्रमे रक्ताशोकप्रकाशे च किंशुकशुकमुखगुजार्धरागसदृशे च कमलाकरषण्डबोधके तेजसा ज्वलति सति एवं तत्क्षणमेव प्राचीनां वा प्रतीचीनां वा दक्षिणां वा उदीचीनां वा दिशं पुरतो युगमात्रमेव प्रेक्षमाणो यथारीत्येतुं तस्य कल्पते निर्ग्रन्थस्य ॥ श्रीगिरीयमध्ययनम् । __ यत् सुखं सुखेन लब्धं तद् अत्यन्तसुखमेव, यत् तु दुःखं दुखेन लब्धं मा मम तेन समागमो भूद् (१) ॥ इति बोर्षिणा भाषितम् । – मनोज्ञ भोजनं भुक्त्वा मनोज्ञे च शयनासने मनोज्ञेऽगारे बौद्ध भिक्षुः समाहितो ध्यायति (२) ॥ स एवामनोज्ञ भोजनं भुक्त्वा शयनासने चामनोज्ञे गृहेऽमनोज्ञे दुःखं ध्यायत्यार्तमपध्यानं करोतीत्यर्थः (३) ॥ तं तादृशमेवमनेकवर्णकमन्यतीर्थकं भिक्षु नानागुणपदार्थ वा परित्यज्य पण्डितः प्राज्ञो नान्यत्र लुभ्यति, एतद् यथार्थबुद्धस्य शासनम् (४) ॥ नानावर्णेषु शब्देषु रूपेषु गन्धेषु रसेषु स्पर्शेषु श्रोत्रादिप्राप्तेषु गृद्धिं वाक्प्रदोषं वा सम्यग् वर्जयेद् बुद्धिमान् पण्डितः (५) । जाग्रतोऽप्रमत्तस्य मुनेरिन्द्रियाणि पञ्च सुप्तान्यात्मदुःखस्य कारणानि हेतवः कारणाद् वा दुःखस्योत्पादयमानत्वात् ,

Loading...

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198