Book Title: Isibhasiyaim
Author(s): Walther Schubring, Dalsukh Malvania
Publisher: L D Indology
View full book text
________________
१५८
. ऋषिभाषितटीका
धनागमं, तथा शरणं प्रयतो मन्ये भवेज्जिनवचनं गम्भीरं सर्वतोभद्रं हेतु भङ्गनयोज्ज्वलम् (२८-३०) || (३१) (३२) || सर्वज्ञशासनं पुरुषेण प्राप्तं यदि तदा विज्ञानं प्रविजृम्भते प्रकटीभवति यथा तरूणां चारुरागमो मनोज्ञः प्रादुर्भावो दृश्यतेपुरुषैर्हिमवन्तं गिरिं प्राप्तवद्भिः ( ३३ ) || सत्त्वादीनि वर्धन्ते यथा सुष्ट्वाक्रान्तं सुप्रयुक्तमौषधं बलवीर्यं योजयति शरीरेणेति शेषः (३४) || प्रचण्डस्य क्रूरस्य नरेन्द्रस्य कान्तारे संसारे च देशिकस्य गुरोस्तथा वैद्यस्यारोग्यकारण आज्ञाक्रोध आरोग्याद्यर्थं प्रशस्तोऽग्राज्ञा दुःखावहा अमनोज्ञा दृश्यते, परंतु यन्नरेन्द्राद् यच्च ये संसारे देशकांस्तेभ्यः शासनं वैद्याद् वा रोगोद्घातो रोगोन्मूलनं सर्वमेतद्धिते हितमतिहितं भवति ( ३५.३६ ॥ जिनेन्द्रस्य शरण्यस्य बुतिमतः संसारे दुःखसंबाधे सर्वदेहिनां दुस्तारो भवत्याज्ञाकोप उग्राज्ञा, तथाऽपि त्रैलोक्यसारगुरु धीमतो भाषितमिदं कायेण श्रोत्रेण सम्यक् स्पृष्ट्वा गृहीत्वा यदि वा भाषितमाज्ञावन्मस्तके गृहीत्वा न पुनस्तस्माद् विरमेत् ( ३७.३८ ) ।। यथा योधो बद्धचिह्नो वर्मारूढः स्थिरायुधः सिंहनादं विमुच्य पलायमानो न शोभते किं त्ववमान्यतां गच्छति, यथा नांगो भुजङ्गो महाविषोऽगन्धनकुले जातः स्वविषं मुक्त्वा भूयस्तत् पिबन् लाघवं याति, यथा च सर्पः कुलोद्भूतो रमणोयमपि भोजनं वान्तं पुनर्भुजन् धिग्धिकारस्य भाजनं भवति, अगन्धनास्तु नागा मरणं व्यवस्यन्ति न च वान्तमापिबन्तीति विपरीतमादिशति जिनदासो दशवैकालिकचूर्णौ, एवं जिनेन्द्राज्ञया सव्यथमात्मतस्तपसा शल्योद्धरणमेव तथा प्रदीप्ताद् गृहान्निर्गमनं सुखी सुहितं वा भवति, सुखमेव तत् ( ३९ - ४२ ) ॥ इन्द्राशनिर्दीप्तो वह्निऋणमरिर्न तत् कुर्युर्यत् कुर्याद् आस्वाद्यमानसम्बन्धम् ऋद्धिगौरवम् ऋद्धीनां बहुमान: ( ४३ ) ॥ शातकर्मेष्टं करणं दुःखकरं दुरन्तं भवति यथा सग्राहं शिशुमारादिगर्भ सरो बुद्धं विकसितोत्पलं वामया स्त्रिया वा कामिनोऽनुयोजितं विषं सामिषं वा नदीस्रोतो मत्स्यप्लवनयोग्यम्: (४४) ॥ कोशीकृतः कोशे निहित इवासिस्तीक्ष्णो भस्मच्छन्न इव पावकस्तथा लिङ्गवेषपरिच्छन्नः पुमान् कुसाधु र जितात्मा (४५) | | कामा मृषामुखिनो व्याजशीलास्तीक्ष्णाः, शातकर्मानुसारिणी तृष्णा चाशातं च, शीघ्रं च तृष्णा कामश्छिनत्ति देहिनं ( ४६ ) || सदेवोरगगन्धर्व सतिर्यक् समानुषं जगत् ताभ्यां शात-तृष्णाभ्यां कृच्छ्रं वृत्तं संभूतं तृष्णापाशनिबन्धनम्, के ते? उच्यते : अक्षोपाञ्जनं व्रणे लेपो यच्च जतुनस्तापनं यच्च ततो युक्तं कार्यकारणमिति (४७.४८)।। आत्मनो जीवस्य खलु तीव्रवह्नेः संयमार्थं संयम आहारादिप्रतीकाररूपः सर्वज्ञ

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198