Book Title: Isibhasiyaim
Author(s): Walther Schubring, Dalsukh Malvania
Publisher: L D Indology
View full book text
________________
१५६
ऋषिभाषितटीका एधते (१)॥(२)(३)॥ इच्छतेच्छा वाञ्छेष्यते, अनिच्छन्नपि तामिच्छति, तस्मादित्यादि पूर्ववत् (४)॥ हे साधो, द्रव्यतः क्षेत्रतः कालतो भावतो यथास्थाम यथाबलं यथावीर्यमनिगूहन्नालोचयेरिति ब्रवीमि ॥ द्वैपायनीयमध्ययनम् । -------
येषामात्मा रूपमाजीवाद्धेतोर्नराणां बलदर्शन तपोबलदर्शनाय भवति, ये जीवनार्थमात्मनस्तपोबलं नरान् दर्शयन्ति, ते जनाः स्वतप आमिषं कृत्वा जनं संनिचयन्ते मेलयन्ति (१)॥ तेषां सुकृतं तपो विक्रीतं भवति तच्च सुकृतमा श्रित्य जीवितं विक्रीतम् । कर्मचेष्टा व्यापारवन्तो जना अजात्या अनार्या वा मामकाः शठा भवन्ति, एतादृशांस्तान् जानीयात् (२)॥ यथोच्छिन्नगला अस्रोतंसि शुष्कस्थले वा मत्स्या वेदनं प्राप्नुवन्ति, तथाऽनागतमपश्यन्तो दुर्मतयः पश्चाछोचन्ते (३)॥ मत्स्या यथा क्षीणपानीयाः कंकानां घासमागता इति श्लोकार्ध पूर्वगतेन वा संबन्धनीयं लेखकदोषेग वा गलितमुत्तरार्धम् । प्रत्युत्पन्नरसे गृद्धा मोहमल्लप्रणुन्ना दृप्तां बलवतीमुत्कण्ठां प्राप्नुवन्ति वारिमध्ये वारणा इव (४.५)॥ माहारमात्रसम्बद्धाः कार्याकार्येभ्यो निमीलितचक्षुषः पक्षिणो विहगा घटकुम्भ इवावशाः पाशेन संक्षयं प्राप्नुवन्ति (५.६)॥ मधु प्राप्नोति दुर्बुद्धिः कथाप्रसिद्धः, प्रपातं तु न स पश्यतीति श्लोकाध पूर्ववत् । आमिषार्थी जीवः पुरुषो जीवे वा जीविते सम्यक्चारित्रं हिनस्ति (७)॥ अनयं मणि मुक्त्वा सूत्रेण गुणेन केवलेनाभिनन्दति दुर्मतिः, स सर्वज्ञशासनं मुक्त्वा मोहादिकैः कषायैः स्वचरित्रं हिनस्ति (८)। श्रोत्रमात्रेण, न तु मुखेन ग्राह्य विषं जानन्नेव तत्रैव श्रोत्रेणैव युनक्ति गृह्णाति, आजीवार्थ तपो मुक्त्वा संत्यज्य विविधं बहुप्रकारेण तप्यति, तप आश्रित्य जीवंस्तपआजीवेन जीवति (९.१०)॥ यो ज्ञानमेवोपजीवति स चरित्रं करणं च लिङ्गं च जीवनार्थम् उपजीवन्नविशुद्धमिति जीवति (१०.११)। विद्यामन्त्रोपदेशैर्दूतीसंप्रेषणर्वा भाविभवोपदेशैश्चाविशुद्धमिति जीवति (११.१२)। मूलकर्मभिः कौतुककर्मभिः भाषया प्रणयिमिश्चाख्यायिकोपदेशैरविशुद्धमिति जीवति (१२.१३)॥ यो बाल आजीवको मासे. मासे कुशाग्रेणैवाहारमाहरति स स्वाख्यातधर्मस्य न शततमां कलामर्हति (१४)। परंतु मा मां कश्चिज्जानातु मा चाहं कञ्चिज्जानामीत्यज्ञातेनाज्ञातमर्थ समुदानिकं भिक्षालब्धं चरेत् (१५)॥ (१६)(१७)॥ इन्द्रनागीयमध्ययनम् ।

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198