Book Title: Isibhasiyaim
Author(s): Walther Schubring, Dalsukh Malvania
Publisher: L D Indology
View full book text
________________
ऋषिभाषितटीका
१५९
वचनेनाऽऽख्यातः (४९) । । हैमं वा बन्धनमायसं वाऽपि दुःखकारणमेव, महार्घ्यस्यापि दण्डस्य निपाते दुःखसंपद् भवेत् ( ५० ) || दिव्ये कर्तर्यासाद्यमाने ब्रह्मण: प्रतिरूपे क्रियमाणे धीमता मुनिना कार्यकारणमभिवार्य निराकृत्य देहधारणं विनीतं प्रायोपगमादिनाऽपनीतम् (५१) ॥ यथा सागरेणावनेर्योगः, आतुरो रोगी पुरुषस्तुरङ्गमारूढः, तृप्तकैर्भोजनम् एवं निरर्थकमश्रद्धेयं वा देहरक्षणं जानीयात् (५२) ॥ जातं जातं वीर्यं संयमेन सम्यग् योजयेत् पुष्पादिभिर्मुकुलपुष्पफलै रक्षन्निव पुष्पाणामादिकारणं बोजम् (५३) || वैश्र मणीयमध्ययनम् ।
समाप्तानि ऋषिभाषितानि ।

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198