Book Title: Isibhasiyaim
Author(s): Walther Schubring, Dalsukh Malvania
Publisher: L D Indology

View full book text
Previous | Next

Page 170
________________ ऋषिभाषितटीका १४९ द्विविधा गतिस्तद्यथा प्रयोगगतिः स्वेच्छया गतिर्विनसा गतिस्त द्विपरीता जीवानां च पुद्गलानां चेति । को वा गतिभावः ? अनादिकोऽनिधनो गतिभावः । पाठान्तरं तु यथा औदयिक-पारिणामिको गतिभाव इति । केन वाऽर्थेन गतिरिति प्रोच्यते ? गम्यते इति गतिः । अन्ये तु गम्यमाना इति गतिरिति पठन्ति । इमानि चत्वारि पाठान्तराण्यस्याध्ययनस्यान्ते गतिव्याकरणग्रन्थात् प्रभृति सामित्तं ति यावदयं द्वितीयः पाठो दृश्यत इति प्रवेशितानि । उत्तरगामिनामपि सूत्राणां स द्वितीयः पाठ इति वक्ष्यते । ऊर्ध्वगामिनो जीवा, अधोगामिनः पुद्गलाः । कर्मप्रभवा जीवाः, परिणामप्रभवाः पुद्गलाः; कर्म प्राप्य फलविपाको जोवानां, परिणाम प्राप्य पुद्गलानाम् । द्वितीयः पाठस्तु पापकर्मकृतो जीवानां परिणामः, स एव पुद्गलानामिति । न कदाचिदियं प्रजा मनुष्यादिकाऽव्याबाधसुखमनुपरुद्धसुखमेषेत कशां कशायित्वा हिंसां कृत्वा । द्वितोयपाठस्तु यथा न कदाचित् प्रजा प्राकार्षीद् अदुःखमिति । जीवा द्विविधां वेदनां वेदयन्त्यनुभवन्ति, तद्यथा प्राणातिपातेन यावन्मिथ्यादर्शनेन । विरमणपदं त्विह न युज्यते । अस्येह दृश्यमानत्वाद् वृद्धलेखकदोषेण विस्मृतानि कानिचित् सूत्राणीत्यनुमीयते । पूरितं विदं छिदं II-पुस्तकेन यथा एवं यावन्मिथ्यादर्शनशल्येन कृत्वा जीवाः शातनां वेदनां वेदयन्ति । प्राणातिपातविरमणेन तु यावन्मिथ्यादर्शनशल्यविरमणेन कृत्वा जीवा अशातनां वेदनां वेदयन्तीति । एतेनैव प्रकारेण द्वितीयपाठेन पूरितं छिद्रं यथा आत्मकृतो जीवा भवन्ति, कृत्वा कृत्वा यद् यद् कृतवन्तस्तत् तद् वेदयन्ति, तद् यथा प्राणातिपातेन यावत् परिग्रहेणेति । स एव द्वितीयः पाठोऽनुबध्यते यथा एष खल्वसम्बुद्धोऽसंवृतकर्मान्तश्चातुर्यामिको निम्रन्थोऽष्टविधं कर्मग्रन्थिं प्रकरोति, स च चतुःषु स्थानेषु विपाकमागच्छति, तद्यथा नैरयिकेषु तिर्यक्षु मनुजेषु देवेषु । आत्मकृता जीवा न पर कृताः कृत्वा कृत्वा वेदयन्ति, तद्यथा प्राणातिपातविरमणेण यावत् परिग्रहविरमणेण । एष खलु संबुद्धः संवृतकर्मान्तश्चातुर्यामिको निर्ग्रन्थोऽष्टविध कर्मप्रन्थि न प्रकरोति, स च प्रागुक्तेषु चतुःषु स्थानेषु न विपाकमागच्छति । आदिपाठस्तु मिथ्यादर्शनविरमणेनेतिप्रभृत्यनुबध्यते यथा किं तु जीवाः शातनां नाशनां वेदनां वेदयन्ति । यो यदर्थ यद्वस्तुनो बिभेति तत् न समुच्छेत्स्यते अर्थात् स एव समुत्थास्यति । निष्ठितकरणीयः सन् मडाइ त्ति मृतादी प्राशुकभोजी, उपलक्षणत्वादेषणीयादीति व्याख्याप्रज्ञप्तिवृत्त्यनुसारेण व्याख्येयम् । स्पशुकेति स्थाने तु प्राशुकेत्ययुक्तं प्रवदन्ति वृत्तिकारानुयायिनः । मृतादी निर्ग्रन्थो निरुद्धप्रपञ्चो व्यवच्छिन्नसंसारो व्यवच्छिन्नसंसारवेदनीयः प्रहीणसंसारः प्रहीणसंसारवेदनीयो संसारमार्गान् न पुनरप्यत्रत्वं समागच्छति । पार्थीयमध्ययनम् । द्वितीयपाठस्तु

Loading...

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198