Book Title: Isibhasiyaim
Author(s): Walther Schubring, Dalsukh Malvania
Publisher: L D Indology
View full book text
________________
१५०
ऋषिभाषितटीका समापद्यते यथा लोको न कदाचिन्नासीन्न कदाचिन्न भवति न कदाचिन्न भविष्यति, अभूच्च भवति च भविष्यति च, ध्रुवो नित्यः शाश्वतोऽक्षयोऽव्ययोऽवस्थितो नित्यो भवति, यथा नाम पश्चास्तिकाया न कदाचिन्नासन्नित्यादि एवमेव लोकोऽपि । समाप्तं पाठान्तरम् ।
३२
दिव्यां भो कृषि कृषेन्नार्पयेत् । -कुतः क्षेत्रं कुतो बीजं कुतस्तक युगलागळे ? गा अपि तव न पश्यामि, हे आर्य, का नाम तव कृषिरिति प्रश्नाः (१)। आत्मा क्षेत्रं तपो बीजं संयमो युगलाङ्गले अहिंसा समितिश्च योग्या, एषा धर्मान्तरा धर्मगर्मा कृषिः (२)। एषा कृषिः अलुब्धस्य पुरुषस्य शुभतराऽतिशुभा व्याख्याता, एषा बहुसती अतिसाध्वी परलोकसुखावहा च भवति (३)॥ एतां कृषि कृष्ट्वा सर्वसत्त्वदयावहां ब्राह्मणः क्षत्रियो वैश्यः शूद्रोऽपि वा सिद्धयति (४)। पिङ्गाध्ययनं षड्विंशस्य द्वितीयपाठ इव ।
३३ द्वाभ्यां स्थानाभ्यां बालं जानीयात् , द्वाभ्यां स्थानाभ्यां पण्डितं जानीयात् यथा सम्यक्प्रयोगेन च मिथ्याप्रयोगेन च कर्मणा भाषणेन चेति श्लोकार्धम् । दुर्भाषितया भाषया दुःकृतेन च कर्मणा कार्याकार्यविनिश्चये बालमेतं विजानीयात् (१)(२) (३)॥ सुभाषितया भाषया सुकृतेन च कर्मणा पर्जन्यः कालववि यशोऽभिगच्छति (४)(५)(६) ॥ साधुभिः संगमं च संस्तवं च धर्म च कुर्यादिति स्पष्टं, कुतस्तु धर्मस्य विपरीतमधर्म कुर्यादिति न ज्ञायते (७)।(८)। क्षयि प्रमाणं वाती च देयाद् यो धनमर्जयति, सद्धर्मवाक्यदानं त्वक्षयममृतं च मतं भवति (९)॥ पुण्यं तीर्थमुपागम्य प्रेत्य भुञ्ज्याद्धीतं फलम् , सद्धर्मवारिदानेन क्षिप्रं तु शुध्यति मनः (१०)॥(११)(१२)(१३)(१४)(१५)॥ कल्याणमित्रसंसर्ग कृत्वा संजयो मिथिलाधिपः स्फीतं भुक्त्वा तन्मूलं भोजनं मूलं भवति यथा तथा दिवं गतः (१६)।।(१७)।। आरुणीयाध्ययनम् ।
पञ्चसु स्थानेषु पण्डितो बालेन परीषहोपसर्गानुदीर्यमाणान् सम्यक् सहेत क्षमेत तितिक्षाधिवासयेत, तद्यथा बालः खलु पण्डितं परोक्षं परुषं वदेत् , तत् पण्डितो बहु मन्येत यथा दिष्टयैष बालो मे परोक्षं परुषं वदति, न प्रत्यक्षम् ।

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198