________________
ऋषिभाषितटोका
१४५ तिपातयतोऽनुमोदयन्ति समनुजानन्ति, एवमेव मृषा भाषन्त इत्यादि करणत्रिकम् , अविरता अप्रतिहताप्रत्याख्यातपापकर्मणो मनुजा इत्यतत्क्षणात् पठितव्यत्वादिहापास्यम् , ते स्वयमेवादत्तमाददते अब्रह्म-परिग्रहौ गृह्णन्तीत्यालापकः पूर्ववत् । एवमेव तेऽसंयताऽविरता अप्रतिहताप्रत्याख्यातपापकर्मणः क्रियावन्तोऽसंवृता एकान्तदण्डा एकान्तबाला बहु पापं कर्म कलिकलुषं समय॒तश्च्युता दुर्गतिगामिनो भवन्त्येभिर्दारिता आदानैः ।
ये खलु आर्याः पापैः कर्मभिर्विप्रमुक्ता भवन्ति ते खलु गर्भवर्षासु न सजन्ति । ते न स्वयमेव प्राणिनोऽतिपतन्तीत्यादि विपरीतं पूर्व यावदक्रियावन्तः संवृता. एकान्तपण्डिता व्यपगतरागद्वेषास्त्रिगुप्तिगुप्तास्त्रिदण्डोपरता निःशल्या आत्मरक्षिणो व्यपगतचतुःकषायाश्चतुर्विकथाविवर्जिताः पञ्चमहाव्रतधराः, धर त्ति अपरित्याज्यं, पुस्तकेषु तु न दृश्यते, तिगुत्त त्ति त्रिगुप्त न यथासंख्यं, पञ्चेन्द्रियसंवृत्ताः षड्जीवनिकायसुष्टुनिरताः सप्तभयविप्रमुक्ता अष्टमदस्थानहीना नवब्रह्मचर्ययुक्ता दशसमाधिस्थानसंप्रयुक्ता बहु पापं कर्म कलिकलुषं क्षपयित्वेतश्च्युताः सुगतिगामिनो भवन्ति ।
हे भगवन्नम्बट, ते सूत्रमार्गानुसारिणः क्षीणकषाया दान्तेन्द्रियाः शरीरसंधारणार्थ योगसंशनीय नवकोटिपरिशुद्धत्यादिप्रसिद्धलक्षणं पिण्डं तादृशां भिक्षां शय्यां चोपधिं च गवेषमाणाः साधवः सङ्गतगतहसितभणितैः सुन्दरस्तनजघनैश्च प्रतिरूपा रूपवत्यः स्त्रियो दृष्ट्वा न तेषां मनसाऽपि प्रादुर्भावं गच्छन्ति मैथुनार्था ग्रामधर्माः । एतावदेव ऋषिभाषितमित्यम्बटस्य संबोधितत्वादनुमेयम् , शेषाणामृषिभापितानां वाग्वृत्तिं त्वनुसृत्य हारिता इत्यादि लघुवाक्यं यौगन्धरायणभाषितमिति ।
कथमेतदिति कथं सा क्षीणकषायता दान्तेन्द्रियतेत्युच्यते । सा भवति विगतरागता सरागस्याप्यपेक्ष्येति केवले स्त्र विषये न तु सर्वथा हतमोहस्येत्यर्थ इव दृश्यते । तत्र तत्रेतरेतरेषु कुलेषु पिण्डं गवेषमाणा इत्यादि पञ्चदशाध्ययनवत् (१)॥ स शुद्धपिण्डः कथमिति हस्ति-महावृक्षनिदर्शनं, पाउत्ति पात्रम् , तैलपात्रधर्ममप्रमादगुणवर्णनगर्भ पञ्च चत्वारिंशाध्ययनस्य द्वाविंशे श्लोके सूचितं किम्माकफलनि
दर्शनं मूढत्वप्रकाशकं च । अपरं च-यथा नामैकः शाकटिकोऽक्षं म्रक्षेदेष मम - न भक्ष्यति भारं च मे वहिष्यतीति चिन्तयन्, एतयोपमया श्रमणो निम्रन्थः षट्सु स्थानेष्वाहारमाहारयन् नातिकामति, तद् यया वेदना-वैयापृत्य-ईर्या