________________
१४४
ऋषिभाषितटीका श्लोके एवमेव (११)॥ (१२) (१३) (१४) (१५) (१६) (१७) ॥ या कान्तिर्वयोऽवस्था वा येन कर्मणा युज्यते तादृशी तस्या निर्वृत्तिर्भवति वाचः प्रतिश्रुदिव (१८) । ताहं तासाम्, इह सम्बन्धे तु ताभ्यां कान्ति-वयोभ्यां कृतेनोदयेनोभृता नानागात्रविकल्पिता अनेकगात्रेषु कृता भङ्गोदयाः संसारे सर्वदेहिनामनुवर्तन्ते ताभ्यामनित्यत्वात् (१९)॥ (२०) ॥ अथ कर्मोच्यते । बुध्यते चैव कर्म हेतुयुक्तं शुभाशुभं यथा वल्लीनां फलाफलं पर्याप्तफलान्यपर्याप्तफलानि च बुध्यन्ते (२१)॥ स्वयमात्मप्रयत्नेन च्छिन्नादानमप्युपादानं छिन्नं यस्य तत् कर्म भुज्यते, न तद् वय॑तेऽवश्यं वेदनीयं भवति, यथा वल्लोनां फलाफलमिति पूर्ववत् पूर्वोत्पन्नं छिन्नमूलमपि भुज्यते (२२) । (२३) । अप्ररोहि यथा बीजं धूमहीन इवानलो नष्टसंज्ञो भ्रष्टोपदेश इव देशको गुरुस्तथा कर्म च्छिन्नमूलं (२४) ॥ येन कर्मणा युज्यते पुरुषस्तादृशं वेषं धारयति नटो यथा रङ्गमध्ये वृत्तकान्तिसमर्थः (२५)॥ चित्रा नानाप्रकारा विविधोदया च देहिनां संसारसंन्ततिः सर्वे द्रुमालया वनानीव भवन्ति सर्वपुष्पफलोदयाः (२६)॥ (२७- ३० यथा पञ्चदशेऽध्ययन एकादशादयः श्लोकाः) चञ्चलं सुखमादाय सक्ता मोहे मानवा भवन्त्यादित्यरश्मितप्ता इव मत्स्याः क्षीयमाणपानीयाः (३१) ॥ अध्रुवं राज्यं संश्रिता नरा अवशाः संक्षयं प्राप्नुवन्ति फलार्थिन इव च्छेद्य तरुमारूढाः (३२)॥ (३३) (३४)। मोहमोहितो मोहीनां मध्ये क्रीडति मोही यथा ग्रहीणां ग्रहवतां ग्रहगृहीतानां मध्ये ग्रही यथार्थ ग्रहमोहितः (३५)॥ नान्यत् कर्म नान्येषां देहिनां कर्म बध्नन्तो निर्जरयन्तश्च भवन्ति देहिनः, किं तु स्वकीयमेव, यथा वारिग्राहा घटीतो धव्यमाननिबन्धना भवन्ति, गृहीतं वारिमात्रं घटोमात्राधानं भवतीति भावः (३६)॥ बध्यते मुच्यते चैव जीवाश्चित्रेण नानाप्रकारेण कर्मणा, यथा रज्जुपाशैर्बद्धः कश्चिदन्यस्य प्रयोगेनेर्यते चाल्यते (३७) ॥ (३८) (३९)॥ निश्चलं कृतारोग्यं त्रैले क्यसंस्कृतं स्थानमुत्तमं प्राप्नुवन्ति जीवाः सर्वज्ञमार्गानुगताः (४०)॥ हरिगिर्यध्ययनम् ।
२५ ततश्चाम्बरः परिव्राजको यौगन्धरायणमेवमवादीद् यथा देवानुप्रिय, मनसि मे गर्भवर्षाभ्यो मैथुनाद् विरतिः, कथं न त्वं ब्रह्मचारी भवसीति । ततो यौगन्ध रायणोऽम्बटं परिव्राजकमेवमवादीद् यथा हारिताः पुरुषा एभिरेभिश्च तावदादानैः कर्मोपादनैः । ये खलु हारिताः पापैः कर्मभिरवियुक्तास्ते खलु गर्भवर्षासु सजन्ति । ते स्वयसेव प्राणिनोऽतिपतन्त्यन्यानपि जनान् प्राणिनोऽतिपातयन्त्यन्यानपि जनान् प्राणिनोड़